________________
अध्ययनं-१,[नि. २९]
२१ भिक्षणशीलस्य, सम्यग्-अविपरीतो योगः-समाधिः संयोगः, ततो विविधैः परीषहासहनगुरुनियोगासहिष्णुत्वालस्यादिभिः प्रकारैः प्रकर्षेण मुक्तो विप्रमुक्तः तस्य, शेपं प्राग्वत् ।
एवं चाविनयप्रतिपादनस्यापि प्रतिज्ञातत्वात् सर्वं सुस्थम् । अपरस्त्वाह-प्रतिज्ञातमपि विनयमभिधित्सोरप्रस्तुतम्, इदमपि बालप्रजल्पितं, यतः शास्त्रारम्भेऽभिधेयाद्यवश्यमभिधेयम्, अन्यथा प्रेक्षावत्प्रवृत्त्यसम्भवात्. तत्प्रदर्शनात्मकं चैतत् प्रतिज्ञानं, तथाहि-विनयं प्रादुप्करिप्यामीत्युक्ते विनयोऽस्याध्ययनस्याभिधेयः, तत्प्रादुष्करणं फलं, तथा चेदमुपेयम्, उपायश्चास्यप्रस्तुताध्ययनम्, इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति, ततो नाप्रस्तुतत्वं प्रतिज्ञानस्येति स्थितम् । सम्प्रति सूत्राऽऽलापकनिष्पन्ननिक्षेपस्य सूत्रस्पशिकनियुक्तेश्च प्रस्ताव इति मन्यमानः संयोग इत्याद्यं पदं स्पृशनिक्षेप्तुमाह नियुक्तिकृत्नि.[३०] संजोगे निक्खेवा छक्को दुविहो उ दव्वसंजोगे।
संजत्तगसंजोगो नायव्वियरेयरो चव॥ ७. 'संयोग' इति संयोगविषयः 'निक्षेपः' न्यासः, षट् परिमाणमस्येति पटकः प्राग्वत्कन्, एतद्देदाश्च नामस्थापनाद्रव्यक्षेत्रकालभावाः प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच्च नोक्ताः , अत्र च--
"संहितादिर्यतो व्याख्याविधिः सर्वत्र दृश्यते । नामादिविधिनाऽऽरब्धं न व्याख्या युज्यते ततः ॥१॥
इत्याहुरविभाव्यव, स्याद्वादं वादिनोऽपरे। यत्नदत्र निराकार्यमाचक्षाणेन तद्विधिम्॥२॥ स्यादस्तीत्यादिको वादः, स्याद्वाद इति गीयते। नयो न च विमुच्यायं, द्रव्यपर्यायवादिनौ ।।३।।
अतश्चैतद्वयोपेतं, स्वं मतं समुदाहृतम्। सञ्जाततत्त्वसंविद्भिः, स्याद्वादः परमेश्वरैः ॥४॥ ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविगमध्रौव्यख्यापकं सम्प्रचक्षते ।।५।।
उत्पत्तिविगमावत्र, मतं पर्यायवादिनः । द्रव्यार्थिकस्य तु ध्रौव्यं, मातृकाख्यपदत्रये ॥६॥ ततश्च-द्रव्यत्वमन्वयित्वेन, मृदो यद्वद् घटादिषु। तद्वदेवान्वयित्वेन, नामस्थापनयोरपि ||७||
अन्वयित्वं तु सर्वत्र, सङ्केतानाम्न उच्यते। स्थापनायाश्च तद्रुपक्रियातो बुद्धितोऽपि वा ।।८।।
तन्नामस्थापनाद्रव्यनिक्षेपैरनुवर्तितः ।
द्रव्यार्थिकनयो भावनिक्षेपादितर: पुनः॥९॥ तथा च महामतिः-"तित्थयरवयणसंगहविसेसपत्थारमूलवागरणी। दव्वदिओवि पज्जवणओ य सेसा वियप्पा सिं॥१०॥"
For Private & Personal Use Only
Jain Education International
For Priv
www.jainelibrary.org