SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-१/१ भिक्षुरस्वभिक्षुः-जात्याद्यनाजीवनादनात्मीकृतत्वेनानात्मीयानेव गृहिणोऽन्नादि भिक्षत इतिकृत्वा, स च यतिरव, ततोऽनगारश्वासावस्वभिक्षुश्च अनगारास्वभिक्षुस्तस्य, किमित्याहविशिष्टौ विविधो वा नयो-नीतिविनय:-साधुजनासेवितः समाचारस्तं, विनमनं वा विनतं 'नीयं सेज्जं गईं ठाणं' इत्याद्यागमात्, द्रव्यतो नोचैर्वृत्तिलक्षणं प्रत्वं भावतश्च साध्वाचारप्रति प्रवणत्वं 'प्रादुष्करिष्यामि' प्रकटायप्यामि, कथमित्याह-पूर्वस्य पश्चादनुपूर्व तस्य भाव इत्यर्थे "गुणवचनब्राह्मणादिभ्यः" कर्मणि चेति ष्यञ्, तस्य च पित्करणसामर्थ्यात् स्त्रीत्वे "षिद् गौरादिभ्यश्चे"ति डीष्यानुपूर्वी क्रमः परिपाटीतियावत् तया, द्वितीया तु 'छन्दोवत् सूत्राणी'ति न्यायतः छान्दसत्वे 'सुपा सुपो भवन्तीति वचनात् तृतीयार्थे, 'शृणुत' आकर्णयत श्रवणं प्रत्यवहिता भवत, यद्वा शृणु 'इहे ति जति जिनमते वा, व्याख्याद्वयेऽपि शिष्याभिमुखी करणमित्यर्थः । अनेन च पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यापितं भवति, तथा च "नभवति धर्मः श्रोतः सर्वस्यैकान्तता हितश्रवणात्। ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ।" 'मे' मम विनयं विनतं वा प्रादुष्करिष्यत इति प्रक्रमः । उक्त: पदार्थस्तदभिधानात् सामासिकपदान्तर्गतः पदविग्रहश्च (उक्त इति), ततश्चालनावसर:, सा च सूत्रार्थगतदूषणात्मिका, "सुत्तगयमत्थविसयं व दूसणं चालणं मयं तस्स" इति वचनात्, तत्र सूत्रचालना-संयोगस्य विप्रमुक्तक्रियां प्रति कर्तृत्वात् संयोगादिति कथं पञ्चमी?, अर्थचालना च 'विनयं प्रादष्करिष्यामी'ति प्रतिज्ञातम्, उत्तरत्रच आणाऽनिद्देसकरे' इत्यादिना खड्डयाहिंचवेडाहि' इत्यादिना च विपर्ययप्रतिपादनमपि दृश्यते. इति कथं न प्रतिज्ञाक्षितिः?. प्रत्यवस्थानं-शब्दार्थन्यायतः परोपन्यस्तदोषपरिहाररूपं, यत आह “सद्दथिन्नायाओ परिहारो पच्चवत्थाणं" तत्र च यद्यपि संयोगेन विमुच्यमानो भिक्षुः कर्म तथापि कर्तृत्वेनात्र विवक्ष्यते, ततश्च तस्य तं विप्रमुञ्चतो विश्लेषोऽस्तीति विश्लेषक्रियायां संयोगस्य ध्रुवत्वेनापादानत्वान्याय्यैव पञ्चमी, अत एव विप्रमुक्त इत्यत्र कर्मकर्तुः कर्मवद्भावात् कर्मणि क्तोऽपि सिद्धो भवति इति न सूत्रदोषो, नाप्यर्थदोषः, यतो यद् यल्लक्षणं तत्तद्विपर्ययाभिधान एव तल्लक्षणमल्केशेन ज्ञातुं शक्यमिति अत्र विनयाभिधानप्रतिज्ञानेऽप्यविनयाभिधानं, तथा च शय्यम्भवप्रणीताचारकथायामपि “वयछक्ककायछक्क मित्यादिनाऽऽचारप्रक्रमेऽप्यनाचारवचनम् । अथवा एकमपीदं सूत्रमावृत्त्या श्वेतो धावती तिवदर्थद्वयाभिधायकं, ततश्चायमन्योऽर्थः-संयोगेन-कपायादिसम्पर्कात्मकेनाप्यविप्रमुक्त:-अपरित्यक्तः, संयोगाविप्रमुक्तस्तस्य, ऋणमिव कालान्तरक्लेशानुभवहेतुतया ऋणम्-अष्टप्रकारं कर्म तत् करोतीति, कोऽर्थः ? -तथा तथा गुरुवचनविपरीतप्रवृत्तिभिरुपचिनोतीति ऋणकारस्तस्य, 'भिक्षोः' कषायादिवशतो जीववीयंविकलस्य पौरुषघ्नीमेव भिक्षां तथाविधफलनिरपेक्षतया भ्रमणशीलस्य 'विनयं प्रादुष्करिष्यामी'ति "प्राकाश्यसम्भवे प्रादु"रिति वचनात् प्रादुःशब्दस्य सम्भवार्थस्यापि दर्शनादुत्पादयिष्यामि, सम्भवति हीदमध्ययनमधीयानानां गुरुकर्मणामपि प्रायो विनीताविनीतगुणदोषविभावनातो ज्ञानादिविनयपरिणतिः, अथवा विरुद्धो नयो विनयोऽसदाचार इत्यर्थः, तं प्रादुष्करिष्यामि-प्रकटयिष्यामि, कस्य? -'भिक्षोः' उक्तन्यायेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy