SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३४० उत्तराध्ययन-मूलसूत्रम्-१-१४/४५४ वृ. क्षणमात्रं सौख्यं येषु ते तथा, बहुकालं नरकादिषु दुःखं शारीरं मानसं च येभ्यस्ते तथाविधाः, कदाचित्खल्पकालमपि सुखमतिशायि स्याद् दुःखं त्वन्यथेति स्वल्पकालमपि तबहुकालभाविनोऽपिदुःखस्योपहन्तृ स्यादत आह-प्रकामम्-अतिशयेनदुःखं येभ्यस्ते तथा, 'अनिकामसौख्याः' अप्रकृष्टसुखा:, ईदृशा अप्यायतौ शुभफलाः स्युरत आह-संसारान्मोक्षोविश्लेषः संसारमोक्षो निर्वृत्तिरित्यर्थस्तस्य विपक्षभूता:-तत्प्रतिबन्धकतयाऽत्यन्तप्रतिकूला:, किमित्येवंविधास्ते इत्याह-खनिरिव खनि:-आकरः 'अनर्थानाम्' इहपरलोकदुःखावाप्तिरूयाणां, तुशब्दोऽवधारणे भित्रक्रमश्च ततः खनिरवे, के एवंविधा: ?- 'कामभोगा:' उक्तरूपाः, अनर्थखनित्यमेव स्पष्टयितुमाहमू. (४५५) परिव्ययंते अनियत्तकामे, अहो अराओ परितप्पमाने। अन्नप्पमत्ते घनमेसमाने, पप्पुत्ति मच्चुं पुरिसो जरं च ॥ वृ.'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छः सन् 'अहो य राओ'त्ति आर्षत्वाच्चस्य च भिन्नक्रमादह्नि रात्रौ च अहर्निशमितियावत् 'परितप्यमानः' तदवाप्त्यै समन्ताच्चिन्ताग्निना दह्यमानः, अन्ये-सुहृत्स्वजनादयः, अथवाऽन्नं-भोजनं तदर्थं प्रमत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्त: अन्नप्रमत्तो वा धनं' वित्तं 'एसमाने'त्ति 'एषयन्' विविधोपायैर्गवेषयमानः 'पप्पोत्ति' प्राप्नोति 'मृत्युं' प्राणत्यागं, कोऽसौ? -पुरुषः 'जरां च' वयोहानिलक्षणाम्। मू.(४५६) इमं च मे अत्थि इमे च नत्थि, इमं च मे किच्च इम अकिच्चं। तं एवमेवं लालप्पमान, हरा हरांतिति कह पमाओ?॥ वृ.किञ्च-इदं च मेऽस्ति रजतरूप्यादि न कर्तुमुचितं 'त'मिति पुरुषमेवमेव-वृथैव लालप्यमानम्' अत्यर्थं व्यक्तवाचा वदन्तं हरन्ति-अपनयन्त्यायुरिति हरा:-दिनरजन्यादयो व्याधिविशेषा वा 'हरन्ति' जन्मान्तरं नयन्ति, उपसंहर्तुमाह-'इती'त्यस्माद्धेतोः कथं' केन प्रकारेण 'प्रमादः' अनुद्यमः प्रक्रमाद्धर्मे कर्तुमुचित इति शेष: ?, इति सूत्रपट्कार्थः ।। सम्प्रति तौ धनादिभिर्लोभयितुं पुरोहितः प्राहमू. (४५७) धनं पभूयं सह इत्थियाहिं, सयणा तहा कामगुणा पगामा। तवं कए तप्पए जस्स लोगो, तं सब साहीणमिहेव तुझं। वृ. 'धनं' द्रव्यं 'प्रभूतं' प्रचुरं 'सह स्त्रीभिः' समं नारीभिः 'स्वजनाः' पितृपितृव्यादयः, तथा 'कामगुणा:' शब्दादयः 'पगाम'त्ति 'प्रकामाः' इतिशायिनः 'तप:' कष्टानुष्ठानं कृते' निमित्तं 'तप्यते' अनुतिष्ठति 'यस्य' धनादेः 'लोके:' जनस्तत् ‘सर्वम्' अशेषं 'स्वाधीनम्' आत्मायत्तम् इहैव' अस्मिन्नेव गृहे 'तुझं'ति सूत्रत्याधुवयोः, यद्यपि च तयोः स्त्रियस्तदा न सन्ति तथाऽपि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति सूत्रार्थः । तावाहतुःमू. (४५८) धनेन किं धम्मधुराहिगारे?, सयणेन वा कामगुणेहिं चेव। समणा भवस्सामु गुणोहधारी, बर्हिविहारा अभिगम्म भिक्खं ।। वृ. 'धनेन' द्रव्येण किं ?, न किञ्चिदित्यर्थः, धर्म एवातिसात्त्विकैरुह्यमानतया धूरिव धूर्धर्मधुरा तदधिकारेतत्प्रस्तावे स्वजनेन वा कामगुणैश्चैव?, तथा च वेदऽप्युक्तं-"न प्रजया For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy