________________
३४१
अध्ययनं-१४,[ नि. ३७३] न धनेन त्यागेनैकेनामृतत्वमानशु"रित्यादि, ततः ‘श्रमणौ' तपस्विनौ भविष्याव:, गुणोघंसम्यग्दर्शनादिगुणसमूहं धारयत इथ्येवंशीलौ गुणौघधारिणौ बहि:- ग्रामनगरादिभ्यो बहिर्वतित्वाद् द्रव्यतो भावतश्च क्वचिदप्रतिवद्धत्वाद विहार:- विहरणं ययोस्तौ बहिविहारौ अप्रतिबद्धविहारावितियावत् ‘अभिगम्य' आश्रित्य 'भिक्षा' शुद्धोञ्छां तामेवाहारयन्ताविति भाव इति सूत्रार्थः ।। आत्मास्तित्वमूलत्वात्सकलधर्मानुष्ठानस्य तन्निराकरणायाह पुरोहितः - मू.(४५९) जहा य अग्गी अरणीउ संतो, खीरे घयं तिल्लमहा तिलेसु।
एमेव जाया सरीरंमित्ता, संमुच्छई नासइ नावचिढे ।। वृ. 'यथे' त्यौपम्ये चशब्दोऽवधारणे, यथैव 'अग्निः' वैश्वानरः 'अरणिउ'ति अरणित:अग्निमन्थनकाष्ठाद् 'असन्' अविद्यमान एव संमृर्छति, तथा क्षीरे घृतं तेलमथ तिलेषु, एवमेव 'हे जाती' पुत्रौ ! 'सरीरंसित्ति शरीरे काये 'सत्त्वाः' प्राणिनः 'समुच्छंति'त्ति संमूर्छन्ति, पूर्वमसन्त एव शरीराकारपरिणतभूतसमुदायत उत्पद्यन्ते, तथा चाहुः- "पृथिव्यपस्तेजोवायुरिति तत्त्वानि, एतेभ्यश्चैतन्यं, मद्यानेभ्यो मदशक्तिवत्", तथा 'नासइ'त्ति नश्यन्ति-अभ्रपटलवत्प्रलयमुपयान्ति नावचिट्टे'त्ति न पुनः अवतिष्ठन्ते-शरीरनाशे सति नक्षणमप्यवस्थितिभाजो भवन्ति, यद्वा शरीरे सत्यप्यमी सत्त्वा नश्यन्ति, नावतिष्ठन्ते, जलबुद्रुदवत्, उक्तं हि-"जलबुद्बुदवज्जीवाः" अत्रच प्रत्यक्षतोऽनुपलम्भ एव प्रमानं, न ह्यसौ शरीरेशरीरव्यतिरिक्तो वा भवान्तरप्राप्ती प्रत्यक्षत उपलभ्यत इति नास्ति, शशविषाणवदिति भाव इति सूत्रार्थः ।। कुमारकावाहतु:मू. (४६०) नो इंदियग्गिज्झु अमुत्तभावा, अमुत्तभावा चिय होइ निच्चो।
अज्झत्थहेउं निययऽस्स बंधो, संसारहेउं च वयंति बंधं ।। वृ.'नो' इति प्रतिपेधे इन्द्रियैः- श्रोत्रादिभिर्ग्राह्यः-संवेद्य इन्द्रियग्राह्यः, सत्त्व इति प्रक्रमः, असत्त्वादेवायमिन्द्रियाग्राह्य इथ्याशक्याह-'अमूर्तभावात्' इन्द्रियग्राह्यरूपाद्यभावात्, अयमाशय:-यदिन्द्रियग्राह्यं सन्नोपलभ्यते तदसदिति निश्चियते, यथा प्रदेशविशेषे घटो, यत्तु तद्ग्राह्यमेव न भवति न तस्यानुपलम्भेऽप्यभावनिश्चयः, पिशाचादिवत्, तद्विषयानुपलम्भस्य संशयहेतुत्वात्, न च साधकबाधकप्रमानाभावात् संशयविषयतैवास्त्विति वाच्यं, तत्साधकस्यानुमानस्य सद्भावात्, तथाहि-अस्त्यात्मा अहं पश्यामि जिघ्रामीत्याद्यनुगतप्रत्ययान्यथानुपपत्तेः, आत्माभावे हीन्द्रियाण्येव द्रष्ट्टणि स्यः, तेषु च परस्परं विभिन्नेष्वहं पश्यामि जिघ्रामीत्यादिरनुगतोऽहमितिप्रत्ययोऽनेकेष्विवप्रतिपत्तृषु न स्यात्, उक्तं हि
"अहं शृणोमि पश्यामि, जिध्राभ्यास्वादयामि च।
चेतयाम्यध्यवस्यामि, बध्यामीत्येवमस्ति सः ॥" वृद्धास्तु व्याचक्षते-अमूर्तत्वानोइन्द्रियग्राह्यो, नोइन्द्रियं च मनो, मनश्चात्मैव, अतः स्वप्रत्यक्ष एवायमात्मा, कस्मात् ?, उच्यते, काल्यकार्यव्यपदेशात्, तद्यथा-कृतवानहं करोम्यहं करिष्याम्यहमुक्तवानहं ब्रवीम्यहं ज्ञातवानहं जानेऽहं ज्ञास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेशहेतुरहंप्रत्ययो नायमानुमानिको न चागमिकः, किं तर्हि ?, प्रत्यक्षकृत एवायम्, अनेनैवात्मानं प्रतिपद्यस्व, नायमनात्मके घटादावुपलभ्यत इति, तथाऽमूर्तभावादपि च भवति नित्यः, तथाहि-यद्रव्यत्वे सत्यमूर्तं तनित्यं, यथा व्योम, अमूर्तश्चायं द्रव्यत्वे सत्यनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org