________________
अध्ययनं-१४,[नि. ३७३ ]
३३९ समन्ताद्दह्यमानम्, अर्थात् शरीरे दाहस्यापि शोकावेशत उत्पत्तेः, लोलुप्यमानं तद्वियोगशङ्कावशोत्पत्रादुःखपरशुभिरतिशयेन हृदि छिद्यमानं, वृद्धास्तु व्याचक्षते -'लोलुप्यमानं'ति लालप्यमानं- 'भरणपोपणकुलसंताणेसु य तुन्भे भविस्सह'नि, 'बहुधा' अनेकप्रकारं 'बहु' च प्रभूतं यथा भवत्येवं लोलुप्यमानं लालप्यमानं वेति सम्बन्धः, मू.(४५२) पुरोहियं तं कमसोऽनुणंतं. निमंतयंतं च सुए धनेनं ।
जहक्कम कामगुणेहिं चैव, कुमारगा ते पसमिक्ख वकं । वृ. 'पुरोहितं' 'पुरोधसं' 'तं'मिति प्रक्रान्तं 'कमसो'त्ति क्रमेण- परिपाठ्या 'अनुनयन्तं' स्वाभिप्रायेण प्रज्ञापयन्तं निमन्त्रवन्तं च - तो भोगेरुपच्छन्दयन्तं 'सुतौ' पुत्रौ धनेन' द्रव्येण यथाक्रमं प्रक्रमानतिक्रमेण 'कामगुणः' अभिलपणीयशब्दादिविपयैः, पाठान्तरतः-कामगुणेषु वा, 'च:' समुच्चये एव' इति पूरणे, कुमारको तावनन्तरप्रक्रान्तौ 'प्रसमीक्ष्य' प्रकर्पणाज्ञानाच्छादितमतिमालोच्य वाक्यं' वचो वक्ष्यमानमुक्तवन्ताविति गम्यते। म.(४५३) वेआ अधीआ न भवति ताणं, भुत्ता दिया निति तमं तमेणं।
जाया य पुत्ता न हवंति ताणं. को नाम तं अनुमत्रिज्ज एवं? ।। व. किं तदित्याह 'वेदाः' ऋग्वेदादयः 'अधीताः' पठिता न भवन्ति' जायन्ते 'त्राणं' शरणं, तदध्ययनमात्रतो दुर्गतिपतनरक्षणासिद्धः, उक्तं हि तैरपि -
"अकारणमधीयानो, ब्राह्मणस्तु युधिष्ठिरः।
दुप्कुलेनाप्यधीयन्ते, शीलं यस्य स रोचते।" (तथा)
"शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम्।
वृत्तस्थं ब्राह्मणं प्राहुर्नेतरान् वेदजीवकान्॥" तथा 'भुज्जत्ति अन्तर्भावितण्यर्थत्वाद्भोजिताः 'द्विजाः' ब्राह्मणाः 'नयन्ति' प्रापयन्ति तमोरूपत्वात्तमो-नरकस्तत्तमसा-अज्ञानेन यद्वा तमसोऽपि यत्तमस्तस्मिन्-अतिरौद्रे रौरवादिनरके नमिति वाक्यालङ्कारे, ते हि भोजिताः कुमार्गप्ररूपणपशुवधादावेव कर्मोपचयनिबन्धने असद्धयापारे प्रवर्तन्त इत्यसत्प्रवर्त्तनतस्तद्भोजनस्य नरकगतिहेतुत्वमेव, अनेन च तेषां निस्तारकत्वं दुरापास्तमित्यर्थादुक्तं, तथा 'जाताश्च' उत्पन्ना: 'पुत्राः' सुता न भवन्ति 'त्राणं' शरणं नरकादिगतौ निपततामिति गम्यते, उक्तं हि तन्मतानुसारिभिरपि
"यदि पुत्राद्भवेत्स्वर्गो, दानधर्मो न विद्यते। मुषितस्तत्र लोकोऽयं, दानधर्मो निरर्थकः ।।"
बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च।
तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ।" यतश्चैवं ततः को नाम? न कश्चित्सम्भाव्यते यस्ते-तवानुमन्येत-शोभनमिदमित्यनुजानीयात्सविवेक इति गम्यते, 'एतद्' अनन्तरमुक्तं वेदाध्ययनादित्रितयमिति, भुक्त्वा भोगानिति च चतुर्थोपदेशप्रतिवचनमाहमू.(४५४)खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा।
संसारमुक्खस्स विपक्खभूआ, खाणी अनत्थाण उ काम भोगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org