SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३३३ अध्ययनं-१३,[ नि. ३५५ ] इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभुत्तदाहमू.(४४०) पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अवाउं। अन्तरे भंजिय काम भोगे, अनतरे सो नरए पवितो।। ७. 'पंचालराआऽविय'त्ति 'अपि' पुनरर्थः, 'चः' पूरणे, ततः पञ्चालराजः पुनर्ब्रह्मदत्तोब्रह्मदत्ताभिधानः 'साधोः' तपस्विनः 'तस्य' अनन्तरोक्तस्य 'वचन' हितोपदेशदर्शकं वाक्यम् 'अकृत्वा' वज्रतन्दुलवद्गुरुकर्मतयाऽत्यन्तदुर्भेदत्वादननुष्ठान अनुत्तरान्' सर्वोत्तमान् ' भुंक्त्वा' अनुपाल्य 'कामभोगान्' उक्तरूपान् 'अनुत्तरे' स्थित्यादिभिः सकलनरकज्येष्ठेऽप्रतिष्ठान इतियावत् 'स' ब्रह्मदत्तः 'नरके' प्रतीते 'प्रविष्टः' तदन्तरुत्पन्नः, तदनन निदानस्य नरकपर्यवसानफलत्वमुपदर्शितं भवतीति सूत्रार्थः॥ इह चास्य शेषवक्तव्यतासूचिका अपि नियुक्ति-गाथाः पञ्च दृश्यन्ते, तद्यथानि.[ ३५५] इत्थीरयणपुरोहियभिज्जाणं वुग्गहो विनासंमि। सेनावइस्स भेओ वक्कमणं चेव पुत्ताणं ॥ नि.[ ३५६ ] संगाम अत्थि भेओ मरणं पुन चूयपायवुज्जाणे । कडगस्स य निब्भेओ दंडो अ पुरोहितयकुलस्स। नि.[३५७] जउघरपासायंमि अ दारे य सयंवरे अ थाले । . तत्तो अ आसए हथिए अ तह कुंडए चेव ।। नि.[३५८] कुक्कडरहतिलपत्ते सुंदसणो दारुए य नयनिल्ले । पत्तच्छिज्जसंयवर कलाउ तह आसने चेव ।। नि.[ ३५९] कंचुयपज्जुनमि अ हत्थो वणकुंजरे कुरुमई अ। एए कन्नालंभा बोद्धव्वा बंभदत्तस्स ।। वृ. एतास्तु विशिष्टसम्प्रदायाभावात्र विवियन्ते। सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यतेमू.(४४१) चित्तोऽवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी। अनुत्तरं संजम पालइत्ता, अनुत्तरंसिद्धिगइंगओ।तिबेभि। वृ. 'चित्रोऽपि' जन्मान्तरनामतश्चित्राभिधानस्तपस्व्यपि, अत्रापि अपिः' पुनरर्थे, ततश्चित्रः पुनः 'कामेभ्यः' अभिलषणीयशब्दादिभ्यो विरक्तः-पराडमुखीभूतः कामः-अभिलाषोऽस्येति विरक्तकामः उदात्तं-प्रधानं चारित्रं च सर्वविरतिरूपंतपश्च-द्वादशविधं यस्य च उदात्तचारित्रतपाः, पाठान्तरतः-उदग्रचारित्रता वा महेषी महर्षिर्वा, अनुत्तरं' सर्वसंयमस्थानोपरिवर्तिनं 'संजम'त्ति संयमम्-आश्रवोपरमाणिदकं पालयित्वा' आसेव्य अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनीमतिप्रधानां वा 'सिद्धिगति मुक्तिनाम्नी गति 'गतः' प्राप्त इति सूत्रार्थः ।। 'इति' परिसमाप्तौ, ब्रवमोति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । अध्ययनं १३ समाप्तम् मुनि दीपरलसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे त्रयोदशमध्ययनं सनियुक्तिः सटीकं समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy