SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-१३/४३७ उविच्च भोगा पुरिसंचयंति, दुमं जहा खीणफलं व पक्खी। व. 'अत्येति' अतिक्रामति कालः यथाऽऽय:कालः, किमित्येवमुच्यते ?, अत आह'त्वन्ति'शीघ्रं गच्छन्ति 'रात्रयः' रजन्यः, दिनोपलक्षणं चैतत्, ततोऽनेन जीवितव्यस्यानित्यत्वमुक्तम्, उक्तं हि "क्षणयामदिवसमासच्छलेन गच्छन्ति जीवितदलानि। इति विद्वानपि कथमिह गच्छसि निद्रावश रात्री ? ।।" अथवा 'अत्येति' अतीवयाति, कोऽसौ ?-कालः, कुत एतत् ? - यतस्त्वरन्ति रात्रयो, न चापि भोगाः पुरुषाणां नित्याः' शाश्वताः, अपेभिन्नक्रमत्वात्र केवलं जीवितमुक्तिनीतितो न नित्यं, किन्तु भोगा अपि, यत उपेत्य स्वप्रवृत्त्या न तु पुरुपाभिप्रायेण भोगाः पुरुषं 'त्यजन्ति' परिहरन्ति, कमिव क इवेत्याह-'द्रुमं' वृक्षं यथा क्षीणानिविनष्टानि फलानि यस्यासौ क्षीणफलस्तं. 'वा' इत्यौपम्ये, उक्तं हि-"पिव मिव विव वाइवार्थे" भिन्नक्रमश्चायं, ततः 'पक्षीव' विहग इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिवद्भोगा विमुञ्चन्तीति सूत्रार्थः ।। यत एवमतःमू.( ३४८) जईऽसि भोगे चइउं असत्तो, अज्जाई कम्माई करेहि रायं!। धम्मे ठिओ सव्वपयाणुकंपी, तं होहिसि देवो इओ विउव्वी। वृ. यदि तावदसि त्वं भोगान् 'त्युक्तम्' अपहातुम् 'अशक्तः' असमर्थः, पठ्यते च-'जइ तंसि भोगे चइतुं असत्ते'त्ति, यदि चैवं तावत्कर्तुं न शक्तस्ततः किमित्याह-'आर्याणि' हेयधर्मेभ्यः-अतिनिस्त्रिंशतादिभ्यो दूरयातानि शिष्टजनोचितानीतियावत् 'कर्माणि' अनुष्ठानानि कुरु राजन् ! 'धर्मे' प्रक्रमाद्गृहस्थधर्मे सम्यग्दष्ट्यदिशिष्टाचरिताचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणिदयापरः, ततः किं फलमित्याह-'ततः' इत्यार्यकर्मकरणाद् भविष्यसि 'देवः' वैमानिकः 'इतः' इत्यस्मान्मनुष्यभवादनन्त विउव्बि'त्ति वैक्रियशरीरवानित्यर्थ इति वृद्धाः, गृहस्थधर्मस्यापि सम्यक्त्वदेशविरतिरूपस्य देवलोकफलत्वेनोक्तत्वादिति भाव इति सूत्रार्थः ।। एवमुक्तोऽपि यदाऽसौ न किञ्चित्प्रतिपद्यते तदा तदविनेयतामवधार्य मुनिराहमू. (४३९) न तुज्झ भोगे चईऊण बुद्धी, गिद्धोऽसि आरंभपरिरगहेसुं। मोहंकओ इतिउविप्पलावो, गच्छामि रायं! आमंतिओऽसि। वृ.'ने'ति प्रतिषेधे तव भोगान्' शब्दादीन्, उपलक्षणत्वादनार्यकर्माणि वा, चइऊण'त्ति युक्तुं, यद्वा सोपस्कारत्वाद्भोगांस्त्यक्त्वा धर्मो मया विधेयइति 'बुद्धिः' अवगतिः, किन्तु 'गृद्धः' मृच्छितः असि भवसि, केपु?-'आरम्भपरिग्रहेषु' अवद्यहेतेषुव्यापारेषु चतुष्पदद्विपदादिस्वीकारेषु च, 'मोह'ति मोघं निष्फलं यथा भवति एवं, सुब्यत्ययाद्वा मोघो-निष्फलो मोहेन वा-पूर्वजन्मनि मम भ्राताऽऽसीदिति स्नेहलक्षणेन कृतः' विहितः एतावान् ‘विप्रलाप:' विविधव्यर्थवचनोपन्यासात्मकः, सम्प्रती तु 'गच्छामि' व्रजामि राजन् ! आमन्त्रितः-संभाषितः, अनेकार्थत्वाद्धातूनां पृष्टो वा 'असि' भवसि, अयमाशयः-अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणानुशिप्यमानस्यापि गुणाधिकक्लिश्यमानाविनेयेपु" इति सूत्रार्थः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy