SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३३१ अध्ययनं-१३,[ नि. ३५५] मू. (४३३) अहंपि जाणामि जहेह साहू ! जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति, जे दुज्जया अज्जो! अम्हारिसेहिं। वृ. अहमपि, न केवलं भवानित्यापिशब्दार्थः, 'जानामि' अवबुध्ये, तथा इति शेषः, 'यथा' येन प्रकारेण 'इह' अस्मिन् जगति साधो ! यत् 'मे' मम त्वं 'साधयसि' कथयसि वाक्यम्' उपदेशरूपं वचः एतत्' यदनन्तरं भवतोक्तं, तत् किं न विपयान् परित्यजस्यत आह-'भोगाः' शब्दादयः ‘इमे' प्रत्यक्षा: 'सङ्गकराः' प्रतिबन्धोत्पादका भवन्ति ये यत्तदोश्च नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते-अभिभूयन्ते इति दुर्जया: दुस्त्यजा इतियावत् 'अज्जो'त्ति आर्य ! अस्मादृशैः, गुरुकर्मभिर्जन्तुभिरिति गम्यते, पठ्यते च-'अहंपि जाणामि जो एत्थ सारो' पादत्रयं तदेव, अहमपि जानामि योऽत्र सारो-यदिह मनुजजन्मनि प्रधानं चारित्रधर्मात्मकं, चस्य गम्यमानत्वात्, यच्च मे त्वं साधयसि, शेषं प्राग्वदिति सूत्रार्थः । किञ्चमू. (४३४) हथिणपुरंमि चित्ता! दट्टणं नरवई महिड्डियं । कामभोगेसु गिद्धेणं नियाणमसुभं कड।। वृ. हस्तिनागपुरे 'चित्ता' इति आकारोऽलाक्षणिक:, हे 'चित्र!' चित्रनामन् मुने ! दृष्ट्वा 'नरपति' सनत्कुमारनामानं चतुर्थचक्रवर्त्तिनं 'महर्द्धिकं' सातिशयसम्पदं 'कामभोगेषु उक्तरूपेषु 'गृद्धेन' अभिकाङ्क्षावता 'निदानं' जन्मान्तरे भोगाशंसात्मकम् 'अशुभानुवन्धि 'कृतं' निवतितमिति ॥ कदाचित्तत्र कृतेऽपि ततः प्रतिक्रान्तः स्यादत आहम.(४३५) तस्स मे अप्पडिकंतस्स, इमं एयारिसं फलं। जाणमानोऽवि जं धम्म, कामभोगेसु मुच्छिओ।। वृ.'तस्स'त्ति सुव्यत्ययेन तस्मात् निदानात् 'मे' मम 'अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमानेऽपि न मच्चेतसः प्रत्यावृत्तिभूदिति, 'इदमेतादृश्यम्' अनन्तरवक्ष्यमानरूपं 'फलं' काय, यत् कीदृगित्याह-'जाणमानोऽवि'त्ति प्राकृतत्वात् ‘जानन्नपि' अववुध्यमानोऽपि यदहं 'धर्म' श्रुतधर्मादिकं कामभोगेषु मूर्छितः-गृद्धः, तदेतत्कामभोगेषु मूर्छनं मम निदानकर्मणः फलम्, अन्यथा हि 'ज्ञानस्य फलं विरती'रिति कथं न जानतोऽपि धर्मानुष्ठानावाप्तिः स्यादिति भाव इति सूत्रद्वयार्थः ।। पुनर्दिदानफलमेवोदाहरणतो दर्शयितुमाहमू.(४३६) नागो जहाँ पंकजलावसन्नो, दर्दू थलं नाभिसमेइ तोरं। एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मागमनुव्वयामो।। वृ. 'नागः' हस्ती 'यथे'ति दृष्टान्तोपदर्शकः पङ्कप्रधानं जलं यत्कलमुच्यते तत्रावसन्नोनिमग्नः पङ्कजलावसनः, सन् ‘दृष्ट्वा' अवलोक्य 'स्थलं' जलविकलभूतलं 'न' नैव 'अभिसमेति' प्राप्नोति 'तोरं' पारम्, अपेर्गम्यमानत्वात्तीरमप्यास्तां स्थलमिति भावः, इत्येवंविधनागवत् वयमित्यात्मनिर्देश 'कामगुणेषु' उक्तरूपेषु 'गृद्धाः' मूच्छिता न 'भिक्षोः' साधोः 'मार्ग' पन्थानं सदाचारलक्षणम् 'अनुव्रजाम:' अनुसरामः। अभी हि पङ्कजलोपमाः कामभोगाः, ततस्तपरन्त्रतया न तत्पपरित्यागतो निरपायतया स्थलमिव मुनिमार्गमवच्छन्तोऽपि पङ्कजलावमग्नगजवद्वयमनुगन्तुं शक्नुम इति सूत्रार्थः । पुनरनित्यतादर्शनाय मुनिराह मू. (४३७) अच्चेइ कालो तूरंति राइओ, न यावि भोगा पुरिसाण निच्चा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy