________________
३३०
उत्तराध्ययन- - मूलसूत्रम् - १-१३ / ४२९ 'वृ. न तस्य मृत्युना नीयमानस्य तत्कालभाविना दुःखेनात्यन्तपीडितस्य दुःखं शारीरं मानसं वा 'विभजन्ति' विभागीकुर्वन्ति 'ज्ञातय: ' दूरवर्त्तिनः स्वजना न 'मित्रवर्गा' सुहृत्समूहा न 'सुता:' पुत्रान 'बान्धवाः' निकटवर्त्तिनः स्वजनाः, किन्तु एकः - अद्वितीय: 'स्वयम्' आत्मना 'प्रत्यनुभवति' वेदयते 'दुःख' क्लेशं किमिति ?, यतः 'कर्तारमेव' उपार्जयितारमेव 'अनुयाति' अनुगच्छति, किं तत् ? - कर्म, येन तत्कृतं तस्यैव फलमुपनयतीति भाव इति सूत्रद्वयार्थः ॥ इत्थमशरणत्वभावनामभिधायैकत्व भावनामाह
मू. (४३० ) चिच्चा दुपयं च चउप्पयं च खित्तं सिंहं धणधनं च सव्वं । कम्मप्पबीओ अवसो पयाई, परं भवं सुंदर पावगं वा ॥
वृ. ' त्यक्त्वा' उत्सृज्य 'द्विपदं च' भार्यादि 'चतुष्पदं च ' हस्त्यादि ' क्षेत्रम् ' इक्षुक्षेत्रादि 'गृहं' धवलगृहादि 'धण' त्ति धनं- कनकादि 'धान्यं' शाल्यादि, चशब्दाद् वस्त्रादि च, 'सर्व' निरवशेषं ततः किमित्याह-कर्मैवात्मनो द्वितीयमस्येति कर्मात्मद्वितीय: 'अवशः' अस्वतत्रः प्रकर्षेण याति प्राप्नोति प्रयाति, कं ? - 'परम्' अन्यं भवं' जन्म 'सुंदर' त्ति बिन्दुलोपात् 'सुन्दरं' स्वर्गादि' पापकं वा' नरकादि, स्वकृतकर्मानुरूपमिति भावः ॥ तत्र किमन्यदर्शनिनामिव सशरीर एव भवान्तरं यात्युत अन्यथेति ?, उच्यते, औदारिकशरीरापेक्षयाऽशरीर एव, तर्हि तत्त्यक्त्वेत्यत्र का वार्तेत्याह
मू. (४३१ )
-
तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिउं पावगेणं । भज्जा य पुत्तावि य नायओ अ, दायारमन्नं अनुसंकर्मति ॥
वृ. 'तद्' इति यत्तेन त्यक्तम् 'एकम्' अद्वितीयं तद्वितीयस्य जन्तोरन्यत्र सङ्क्रमणात् तूच्छम् असारमत एव कुस्तितं शरीरं शरीरकम्, अनयोस्तु विशेषणसमासः, 'से' तस्य भवान्तरगतस्य संबन्धि चीयन्तेमृतकदहनाय इन्धनानि अस्यामिति चितः - काष्ठरचनात्मिका तस्यां गतं स्थितं चितिगतं दग्ध्वा 'तुः' पूरणे 'पावकेन' अग्निना भार्या च पुत्रोऽपि च ज्ञातयश्च 'दातारम्' अभिलषितवस्तुसम्पादयितारमन्यम् 'अनुसङ्क्रामन्ति' उपसर्पन्ति, ते हि गृहमनेनावरुद्धमास्त इति तद्बहिर्निष्काश्य जनलज्जादिना च भस्मासात्कृत्य कृत्वा च लौकिककृत्यान्याक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थतत्परतया तथाविधमन्यमेवानुवर्त्तन्ते, न तु तत्प्रवृत्तिमपि पृच्छन्ति, आस्तां तदनुगमनमित्यभिप्राय इति सूत्रद्वयार्थः । किञ्च
मू. ( ४३२ ) उवणिज्जई जीवियमप्पमायं, वण्णं जरा हरड़ नरस्स रायं ! । पंचालराया! वयणं सुणाहि, मा कासि कम्माई महालयाइ ॥
वृ. 'उपनीयते' ढोक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमादं' प्रमादं विनैव, आवीचीमरणतो निरन्तरमित्यभिप्रायः, सत्यपिचि जीविते 'वर्ण' सुस्निग्धच्छायात्मकं 'जरा' विश्रसा 'हरति' अपनयति 'नरस्य' मनुष्यस्य 'राजन्!' चक्रवर्त्तिं !, , यतश्चैवमतः 'पञ्चालराज !' पञ्चमण्डलोद्भवनृपते ! 'वचनं' वाक्यं शृणु' आकर्णय, किं तत् ? - मा कार्षीः, कानि ? - 'कर्माणि' असदारम्भरूपाणि 'महालयाणि 'त्ति अतिशयमहान्ति, महान् वा लय:कर्माश्लेषो येषु तानि, उभयत्र पञ्चेन्द्रियव्यपरोपणकुणिमभक्षणादीनीति सूत्रार्थः । एवं मुनिनोक्ते नृपतिराह
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org