________________
अध्ययनं-१३,[नि. ३५५ ]
३२९ पुराकृतकर्मविजम्भितमेवैतत्. कथमन्यथा तथा भूतस्य वंविधसमृद्धवाप्तिरिति भाव;, यतश्चैवमतोऽभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्याह-'त्यक्त्वा' अपहाय भुज्यन्त इति भोगा:द्रव्यनिचयाः कामा वा तान् 'अशाश्चतान्' अनित्यान् आदीयते-सद्विवेकै ह्यत इत्यादानःचरित्रधर्मस्तद्धेतोरभिनिष्क्राम-आभिमुख्येन प्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रम्भव इति भावः, पठन्ति च-'आयाणमेवा अनुचिंतयाही'ति, स्पष्टमिति सूत्रत्रयार्थः ।।
क एवमकरणे दोष इत्याहमू. (४२७) इह जीविए राय ! असासमि, धनियं तु पुन्नाइं अकुब्वमानो।
से सोअई मच्चमुहोवनीए. धम्म अकाऊण परमि लोगे। वृ.इह' जीविते' मनुष्यसम्बन्धिन्यायुपि राजन्! अशाश्वते' अस्थिरे धनियं तु'त्ति अतिशये नैव न तु ध्वजपटप्रान्ताद्यन्यास्थिरवस्तु साधारणतया 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुर्वाण: 'सः' इति पुण्यानुपार्जक: 'शोचते' दुःखार्त्तः पश्चातापं विधते, मृत्यु:आयुःपरिक्षयस्तस्य मुखमिव मुखं मृत्युमुखं-शिथिलीभवद्वन्धनाद्यवस्था तदुपनीतस्त - थाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् 'धर्म' शुभानुष्ठानम् 'अकृत्वा' अननुष्ठाय 'पमि'त्ति चस्य गम्यमानत्वात् परस्मिश्च 'लोके' जन्मान्तररूपे, गत इति शेषः, नरकादिषु ह्यसह्यासातवेदनादितशरीरः शशिनृपतिवत्कि न मया तदैव सदनुष्ठानमनुष्ठितमिति खिद्यत एवाधर्मकारीति सूत्रार्थः । स्यादेतत्-मृत्युमुखोपनीतस्य परत्र वा दुःखाभिहतस्य स्वजनादयस्त्राणाय भविष्यन्ति, ततो न शोचिष्यन्ते इत्याशक्याहमू.(४२८) जहेह सीहो व मियं गहाय, मच्चू नरं नेइ हु अंतकाले।
न तस्स माया व पिया व भाया, कालंमि तंमंसहरा भवंति ।। वृ.'यथे' त्यौपम्ये 'इहे'ति लोके 'सिंह:' मृगपतिः, वेति पूरणे, यद्वा वाशब्दोऽयं विकल्पार्थे, ततो व्याघ्रादिर्वा 'मृगं' कुरङ्ग 'गृहीत्वा' उपादाय प्रक्रमात्खमुखं परलोकं वा नयतीति सम्बन्धः, एवं 'मृत्युः कृतान्तः 'नरं' पुरुषं नयति हु:' अवधारणे, ततो नयत्येव, कदा? -अन्तकाले जीवितव्यावसानसमये, कुमुक्तं भवति?-यथाऽसौ सिंहने नीयमानो न तस्मै अलम्, एवमयमपि जन्तुर्मृत्युना, कदाचित्स्वजनस्तत्र साहय्यं करिष्यत्यत आह-न तस्यमृत्युना नीयमानस्य माता वा पिता वा 'भाय'त्ति वाशब्दस्येह गम्यमानत्वाभ्राता वा 'काले तस्मिन्' जीवितान्तरूपे अंश-प्रक्रमाज्जीवितव्यभागं धारयन्ति-मृत्युना नीयमानं रक्षन्तीत्यंशधराः, यथा हि नृपादौ स्वजनसर्वस्वमपहरति स्वद्रविनदानतः स्वजनादिभिस्तद्रक्ष्यते नैवं स्वजीवितव्यांशदानतस्तज्जीवितं मृत्युना नीयमानम्, उक्तं हि
___ "न पिता भ्रातरः पुत्रा, न भार्य न च बान्धवाः ।
न शुक्ताः मरणात्त्रातुं, शक्ताः संसारसागरे।" इति, अथवाउंशो-दुःखभागस्तं हरन्ति-अपनयन्ति ये तेऽशहरा भवन्तीति, इदमेवाभिव्यनक्ति, आद्यव्याख्याने तु स्यादेतद्-जीवितारक्षणेऽपि दुःखांशहारिणो भविष्यन्त्यत आहमू, (४२९)न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न बंधवा।
इक्को सयं पच्चनुहोइ दुक्खं, कत्तारमेवं अनुजाइ कम्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org