SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२८ उत्तराध्ययन-मूलसूत्रम्-१-१३/४२२ मुकुटाङ्गदादीनि 'भाराः' तत्त्वतो भाररूपत्वात्तं षां, तथाविधवनिताभर्तृकारितसुवर्ण- . स्थगितशिलापुत्रकाभरणवत्, सर्वे कामाः' शब्दादयो 'दुःखवहाः' मृगाजीनामियायतौ दुःखावाप्तिहेतुत्वात्, मत्सरेाविपादादिभिश्चित्तव्याकुलत्वोत्पादकत्वानरकादिहेतुत्वाच्चेति । मू. (४२३) बालाभिरामेसु दुहावहेसु. न तं सुहं कामगुणेसु रायं । विरत्तकामान तवोधनानं, जंभिक्खुणं सीलगुणे रयाणं ।। वृ. तथा बालानां-विवेकरहितानामभिरामा:-चित्ताभिरतिहतवो ये तेषु 'दुःखावहेषु' उक्तन्यायेन दुःखप्रापकेषु न तत्सुखं 'कामगुणेषु' मनोज्ञशब्दादिपु, सेव्यमानेष्विति शेषः, 'राजन!' पृथ्वीपते! 'विरत्तकामानं'त्ति प्राग्वत्, कामविरक्तानां-विषयपराड्युखानां तप एव धनं येषां ते तपोधनास्तेषां यत्सुखमिति सम्बन्धः, 'भिक्षुणां' यतीनां शीलगुणयोवा सूत्रत्वाद 'रतानां' आसक्तानामिति सूत्रद्वयार्थः ।। बालेत्यादिसूत्रं चूणिकृता नव्याख्यातं, क्वचित्तु दृश्यत इत्यस्माभिरुनीतं ॥ सम्प्रति धर्मफलोपदर्शनपुर:सरमुपदेशमाहमू. (४ २४) नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं। जहिं वयं सव्व जनस्स वेसा, वसीअ सोवागनिवेसनेसुं। वृ.'नरेन्द्र!' चक्रवर्तिन् ! जायन्तेऽस्यामिति जातिः अधमा' निकृष्टा नराणां' मनुष्याणा मध्ये 'श्वपाकजातिः' चाण्डालजातिः 'दुहतो'त्ति द्वयोरपि 'गतयोः' प्राप्तयोः, किमुक्तं भवति? -यदाऽऽवां श्वपाकजातावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत्, कदाचित्तामवाप्याप्यन्यत्रैवोषितौ स्यातामित्याह-यस्यां वयं प्राग्वच्च बहुवचनं, 'सर्वजनस्य' अशेषलोकस्य 'द्वैष्यो' अप्रीतिकरौ 'वसीय'त्ति अवसाय-उपितो, केपु?-श्वपाकानां निवेशनानि-गृहाणि श्वपाकनिवेशनानि तेषु, कदाचित्तत्रापि विज्ञानविशेषादिनाऽहीलनीयावेव स्यातामित्याहमू.(४२५) तीसे अ जाईइ उ पावियाए, वुच्छा मुसोवागनिवेसणेसुं। सव्वस्स लोगस्स दुगुंछणिज्जा, इहंतु कम्माई पुरेकडाई ।। ७. तस्यां च जातौ श्वपाकसम्बन्धियां च, 'तुः' विशेषणे, ततश्च जात्यन्तरेभ्य: कुत्सितत्वं विशिनष्टि, पापैव पापिका तस्यां कुस्तितायां, पापहेतुभूतत्वेन वा पापिका तस्यां, प्रापिकायां वा नरकादिकुगतेरिति गम्यते, 'वुच्छे'ति उषितो 'मु' इत्यावां, केषु? -श्वपाकनिवेशनेपु, कीदृशौ?-सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ 'इह' इत्यस्मिन् जन्मनि 'तुः पुनरर्थस्तत इह पुनः ‘कर्माणि' शुभानुष्ठानानि 'पुरेकडाई'ति पूर्वजन्मोपार्जितानि विशिष्टजात्यादिनिबन्धनानीति शेषः, तत उत्पन्नप्रत्ययैः पुनस्तदुपार्जन एव यत्रो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भाव इति।। । मू. (४२६) सो दानि सिं राय ! महानुभागो महिडिओ पुन्नफलोववेओ। चइत्तु भोगाइं असासयाई, आयाणहेउं अभिनिखमाहि।। वृ. यतश्चैवमतः 'सः' इति यः पुरा संभूतनामाऽनगारा आसीद् ‘इदानीम्' अस्मिन् काले 'स'त्ति पूरणे यद्वा दाणिर्सि'ति देशीयमाषयेदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टधर्मफलत्वेनाभिनिष्क्रोमेति सम्बन्धः, अथवा सोपस्कारत्वाद्यत् स एव त्वमिदानीं राजा महानुभागताद्यनवित इह जातस्तत्कर्माणि पुराकृतानीति पूर्वेण सम्बन्धः, कोऽर्थः ? - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy