________________
अध्ययनं - १३, [नि. ३३५ ]
३१७
तदङ्गजेो मुनिचन्द्र:, स च राजाऽन्यदा समुत्पत्रसंवेगस्तमेव सुतं राज्येऽभिपिव्य प्रव्रज्यामशिश्रियत्, प्रतिपाल्य च प्रव्रज्यामपगतमलकलङ्को ऽपवर्गमगमत् ।
अन्यदा च सागरचन्द्राचार्या बहुशिष्यपरिवृतास्तत्रागताः निर्गतश्च मुनिचन्द्रनृपतिस्तद्वन्दनाय. दृष्टाश्चानेन सूरयः स्तुत्वा च तानुपविष्टस्तदन्तिके, श्रुतश्च तत्कथितो विशुद्ध धर्मः, समुत्पन्नश्चास्य तत्करणाभिलाप:, ततः स्वसुतं राज्ये निवेश्य प्रतिपन्नोऽसौ श्रामण्यं गृहीता चानेन ग्रहणासेवनोभयलक्षणा शिक्षा, प्रवृत्ताश्चान्यदा सुसार्थेन सगच्छाः सागरचन्द्रसूरयो ऽध्वानं, मुनिचन्द्रमुनिश्च तैः समं व्रजन् गुरुनियोगादेकाक्येव भक्तपाननिमित्तं क्वचित्प्रत्यन्तग्रामे प्राविशत्, प्रविष्टे चास्मिन् प्रवृत्तः सार्थो गन्तुं प्रचलिताः सहानेन सूरयो, विस्मृतश्चायमेषां प्रस्थितश्च क्षणान्तरेण गृहीत भक्तपानस्तदनुमार्गेण, पतितश्च मूढदिक्चक्रवाल: सार्गवेषणापरो, मार्गात्परिभ्रष्टो भ्रमदनेकशार्दूलजालां द्विपकदम्बकभज्यमानशीलशल्लकीप्रभृतितरुनिकरामनर्वापारतया च संसारानुकारिणीं विन्ध्याटव, तत्र चासौ परिभ्रमन् गिरिकन्दराण्यतिक्रामन्नतिनिम्नोन्नतभूभागान् पश्यन् भयानकानेकद्वीपितरक्षाच्छभल्लादिश्वापदान् उत्तीर्णस्तृतीयदिने, तदा च क्षुत्क्षामकुक्षिः शुष्कोष्ठकण्ठतालुरेकत्र वृक्षच्छायायां मूर्च्छावशनष्टचेष्टो दृष्टश्चतुभिर्गोपालदारकः, उत्पन्ना अमीषामनुकम्पा, सिक्तत्वरितमागत्य गोरसोन्मिश्रहतिजलेन, पायितोऽसौ तदेव, समाश्वस्तश्च नीतो गोकुलं, प्रतिजागरितश्च तत्कालोचितकृत्येन प्रतिलाभितः प्रासुकान्नादिना, कथितस्तेषामनेन जिनप्रणीतधर्मः, गृहीतश्चायमेतैर्भावगर्भं, गतश्चासौ विवक्षितस्थानं, तं च मलदिग्धदेहमवलोक्य द्वयोः समजनि जुगुप्सा, तदनुकम्पातः सम्यक्त्वानुभावतश्च निर्वर्त्तितं चतुर्भिरपि देवायुः, जग्मुश्च देवलोकं, ततश्च्युतौ चाकृतजडुगुप्सौ तु कतिचिद्भवान्तरितौ द्वाविषुकारपुरे द्विजकुले जातौ तद्वक्तव्यता च इपुकारीयनाम्यनन्तराध्ययनेऽभिधास्यते, यौ च द्वौ जुगुप्सकौ तौ दशार्णजनपदे ब्राह्मणकुले दासतयोत्पन्नौ तयोश्च य इह ब्रह्मदत्तो भविष्यति तेनात्राधिकारी, निदानस्यैवात्र वक्तुमुपक्रान्तत्वात्तेनैव च तद्विधानाद्, द्वितीयस्य तु प्रसङ्गत एवाभिधीयमानत्वात्, इह च नामनिष्पन्ननिक्षेपे प्रस्तुते प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति गाथात्रयभावार्थः ।
उक्त नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रस्यावसर इथि सूत्रमुच्चारणीयं, तच्चेदम्
पू. (४०७ )
जाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरंभि । चुलनीइ बंभदत्तो उववन्नो नलिन (पउम) गुम्माओ ॥
वृ. 'जातिपराजित:' इति जात्या - प्रस्तावाच्चाण्डालाख्या पराजितः - अभिभूतः, स हि वाराणस्यां हस्तिनागपुरे च वक्ष्यमानन्यायतो नृपेण नमुचिनाम्ना च द्विजेन चाण्डाल इति नगरनिष्कासनन्यक्कारादिना पुरा जन्मन्यपमानित इत्येवमुक्तः, यद्वा जातिभिः - दासादिनीचस्थानोत्पत्तिभिरुपर्युपरिजाताभिः पराजित इति पराभवं मन्यमानोऽहो ! अहमधन्यो यदित्थं नीचास्वेव जातिषु पुनः पुनरुत्पन्न इति, 'खलुः' वाक्यालङ्कारे, स चैवंविधः किमित्याह- 'कासि 'त्ति अकार्षीत् किमित्याह- 'निदान' चक्रवत्ति पदावाप्तिर्मम भवेदित्येवमात्मकं 'तु: ' पूरणे, क्वेदं कृतवान् ? इत्याह- 'हत्थिणपुरंमि' त्ति हस्तिनागपुरे, चुलन्यां ब्रह्मदत्तः 'उववन्नो 'त्ति उत्पन्न: 'पद्मगुल्मात्' इति नलिनगुल्मविमानाच्च्युत्वेति शेष:, इति सूत्राक्षरार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org