________________
३१६
उत्तराध्ययन- मूलसूत्रम् - १-१२ / ४०६ त्ययाद्येन स्नाता विमला विशुद्धा इति च प्राग्वत् महर्षयो - महामुनय उत्तमं स्थानं मुक्तिलक्षणं 'प्राप्ताः ' गता इति सूत्रद्वयार्थः ॥
इति परिसमाप्तौ, ब्रवमीति पूर्ववद्, गतोऽनुगमः, सम्प्रति नयास्ते च प्राग्वदेव || अध्ययनं - १२ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे द्वादशअध्ययनस्य भद्रबाहुसूरिविरचिता निर्युक्तिः एवं शान्त्याचार्य विरचित टीका परिसमाप्ता अध्ययनं - १३- चित्रसंभूतिय
वृ. व्याख्यातं हरिकेशीयं नाम द्वादशमध्ययनम्, अधुना त्रयोदशममारभ्यते, अस्य चायमभिसंबन्धः--इहानन्तराध्ययने श्रुतवत्तपस्यपि यत्नो विधेय इति ख्यापयितुं तपः समद्धिरभिहिता, इह तु तत्प्राप्तावपि निदानं परिहर्त्तव्यमिति दर्शयितुं यथा तत् महापायहेतुस्तथा चित्रसंभूतोदाहरणेन निदर्श्यत इति, जनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे चित्रसंभूतीयमिति नाम, अतश्चित्रसंभूतनिक्षेपाभिधानायाह नियुक्तिकृत्नि. [ ३३० ] चित्ते संभूअंमि अ निक्खेवो चउक्कओ दुहा दव्वे । आगमनोआगमओ नोआगमओ अ सो तिविहो । जाणगसरीरभवितव्यतिरित्ते य सो पुनो तिविहो । एगभविअ बद्धाऊ अभिमुहओ नामगोए य ॥ चित्तेसंभूआउं वेअंतो भावओ अ नायव्वो । तत्तो समुट्ठिअमिणं अज्झयणं चित्तसंभूयं ॥
नि. [ ३३१ ]
नि. [ ३३२]
नि. [ ३३३ ]
वृ. गाथात्रयं स्पष्टमेव, नवरं 'चित्तेसंभूयाउं' ति एकारोऽलाक्षणिकः, 'ततः समुत्थित' मिति ताभ्यां चित्रसम्भू ताभ्यामभिधेयभूतामागतं, 'तेसुं 'ति च पाटे तयोः 'समुत्थित 'मिति भवं चित्रसंभूतीयं, 'वृद्धच्छः' इति छप्रत्यये वृद्धसञ्ज्ञा तु 'वा नामधेयं यस्ये 'ति वचनात् ॥ सम्प्रतिकाविमौ चित्रसंभूतौ ? केन चानयोरत्राधिकारः ? इत्याशङ्कयाहसागए चंडवडिंगसयस्स पुत्तो अ आसि मुनिचंदो । सोऽवि अ सागरचंदस्स अंतिए पव्वए समणो || तण्हाछुहाकिलंतं समणं दट्ठूण अडविनीहुतं । पडिलाहणा य बोही पत्ता गोवालपुत्तेहिं ॥ तत्तो दुन्नि दुगछं काउं दासा दसन्नि आयाया । दुनि अ उसुआरपुरे अहिगारो बंभदत्तेणं ॥
नि. [ ३३४ ]
नि. [ ३३५ ]
वृ. गाथात्रयमस्याप्यक्षरार्थः स्पष्ट एव, नवरं 'पव्वए समणो 'त्ति प्राव्राजीत् समानं मनोऽस्येति समना:- सर्वत्रारक्तद्विष्टचित्तः सन्, यद्वा श्राभ्यतीति श्रमणः --तपस्वी सन् निश्चयनयापेक्षं चैतत्, "नेरइए नेरइएसु उववज्जति" इत्यादिवत्, तथा 'अडविनीहुत्तं' ति अटवीनि:सृतम्, अरण्यान्निष्क्रान्तमित्यर्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम्- अस्ति कोसलालङ्कारभूतं साकेतं नाम नगरं, तत्र चाभूदधिगतजीवाजीवादितत्त्वश्चन्द्रावतंसको नाम राजा, तस्य च धारिणी देवी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org