________________
- १२, [नि. ३२७]
अध्ययनं - १
३१५
'कहिंसि न्हाओ वे' ति वाशब्दस्य भिन्नक्रमत्वात्कस्मिन् वा स्नातः शुचिर्भूतो रज इव रज:कर्म्म जहासि त्यजसि त्वं ?, गम्भीराभिप्रायो हि भवांस्तत् किमस्माकमिव भवतोऽपि हृदतीर्थ एव शुद्धिस्थानमन्यद्वेति न विद्म इति भाव:, 'आचक्ष्व' व्यक्तं वद संयत ! यक्षपूजित ! 'इच्छामः ' अभिलापामो 'ज्ञातुम्' अवगन्तुं 'भवतः ' तव 'सकाशे' समीपे इति सूत्रार्थ: ॥ मुनिराहधम्मे हरए बंभे संतितित्थे, अनाविले अत्तपसन्नलेसे ।
मू. (४०५)
जहिं सिन्हाओ विमलो विसुद्धो, सुसइभूओ पजहामि दोसं ॥ वृ. 'धर्म्मः' अहिंसाद्यात्मको हृदः कर्म्मरजोऽपहन्तृत्वाद्ब्रह्मेति ब्रह्मचर्यं शान्तितीर्थं, तदासेवनेन हि सकलमलमूलं रागद्वेषाबुन्मूलितावेव भवतः, तदुन्मूलनाच्च न कदाचिन्मल्य सम्भवोऽस्ति, सत्याद्युपलक्षणं चैतत्, तथा चाह
"ब्रह्मचर्येण सत्येन तपसा संयमेन च । मातर्षिर्गत: शुद्धि, न शुद्धितीर्थयात्रया ॥" अथवा 'ब्रह्मे 'ति ब्रह्मचर्यवन्तो मतुब्लोपादभेदोपचाराद्रा साधव उच्यन्ते, च्चैकवचनं, 'संति' विद्यन्ते तीर्थानि ममेति गम्यते, उक्तं हि
" साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थं पुनाति कालेन, सद्यः साधुसमागमः ॥"
किं च-भवत्प्रतीततीर्थानि प्राण्युपमर्द्दहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ?, तथा चोक्तम्
Jain Education International
"कुर्याद्वर्षसहस्रं त, अहन्यहनि मज्जनम् । सागरेणापि कृत्स्नेन, वधको नैव शुद्धयति ।।"
हृदशान्तितीर्थे एव विशिनष्टि- 'अनाविले' मिथ्यात्वगुप्तिविराधनादिभिरकलुषे अनाविलत्वादेवात्मनो - जीवस्य प्रसन्ना- मानगप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिंस्तदाप्त प्रसन्न लेश्यं तस्मिन्, अथवा आता प्राणिनामिह परत्र च हिता प्राप्ता वा तैरेव प्रसन्नलेश्या--उक्तरूपा यस्मिंस्तदाप्तप्रसन्न लेश्यं तस्मिन्नेवंविधे धर्म्महूदे, ब्रह्माख्यशान्तितीर्थे च यदा ब्रह्मशब्देन ब्रह्मचर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणामेन विशेषणद्वयं व्याख्येयं, 'जहिंसि 'त्ति यत्रास्मि स्नात इव स्नातः - अत्यन्तशुद्धिभवनाद्विमलो - भावमलरहितोऽत एवाती (व) विशुद्धो-गतकलङ्कः, 'सुसीतीभूओ' त्ति सुशीतीभूतो रागाद्युत्पत्तिविरहतः सुष्ठु शैत्यु प्राप्तः, पठ्यते च- 'सुसीलभूओ' त्ति सुष्ठु - शोभनं शीलं समाधानं चारित्रं वा भूतः - प्राप्तः सुशीलभूतः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयन्ति - विशुद्धमप्यात्मानं विकृतिं नयतीति दोषः - कर्म्म तं, अनेनैतदा- ममापि हूदतीर्थे एव शुद्धिस्थानं परमेवंविधे एवेति, निगमयितुमाह
मू. (४०६ ) एवं सिणाणं कुसलेण दिहूं, महासिणाणं इसिणं पसत्थं । जहि सिन्हाया विमला विसुद्धा, महारिसी उत्तमं ठाणं पत्ति ॥
वृं. 'एतदि 'त्यनन्तरमुक्तं ' स्नानं' रजोहीनं 'कुशलैः' प्रागुक्तरूपैर्दष्टं-प्रेक्षितभिदमेव च महास्नानं, न तु युष्मत्प्रतीतम्, अस्यैव सकलमलापहारित्वाद्, अत एव चेदं ऋषीणां प्रशस्तंप्रशंसास्पदं, न तु जलस्नानवत्सदोषतया निन्द्यम्, अस्यैव फलमाह - 'जहिंसि' त्ति सुब्व्य
-
सुव्यत्यया
For Private & Personal Use Only
www.jainelibrary.org