________________
३१८
उत्तराध्ययन-मूलसूत्रम्-१-१३/४०७ भावार्थस्त्वयम्-सहि ब्रह्मदत्तः पूर्वजन्मनि वाराणस्या संभूतनामा चण्डालश्चितश्च तज्ज्येष्ठ आसीत्, तत्र च नमुचिनामा ब्राह्मणो ममान्तःपुरमपषितमनेनेत्युत्पन्नकोपेन राज्ञा समपितो मारणनिमित्तं मातङ्गाधिपस्य तत्पितुः, उक्तश्चायमेतेन-यति मत्सुतौ सकलकलाकलापकुशलौ विधत्से ततोऽस्ति ते जीवितमन्यथा नेति, प्रारब्धं च तदर्थिनाऽनेन तद्गृहएवातिगुप्तस्थानस्थितेन तदध्यापन, ग्राहितो तौ व्याकरणवीणापुर:सराः सकला अपि कलाः, अन्यदा च शुश्रूषापरायां तन्मातरि मोहोदयादयमुपपतित्वमाजगाम, ज्ञातस्तज्जनकेन, इष्टश्च मारयितुं, ज्ञातं तत्ताभ्यां, ज्ञापितं चास्मै, उपाध्यायोऽयभावयोस्ततो मा भूदस्यापदिति, तदवगमाच्च पलायितोऽसौ ततः स्थानात्, प्राप्तो हस्तिनागपुरं, कृतः सनत्कुमारचक्रवर्तिना मन्त्री।
इतश्च तो चित्रसंभूतौ सातिशयगीतकलाक्षिप्तरुणीजनात्यासक्तिहेतुतया त्याजितस्पृश्यास्पृश्य विभागौ जनेन राज्ञे निवेदितौ, यथाविनाशितं नगरमाभ्यां, निषिद्धस्तेन नगरस्यान्तस्तत्प्रचारः, कदाचिच्च तावतिकुतूहलतया कौमुदूमहविलोकनार्थमागतो, दृष्टौ जनेन, कर्थितावत्यर्थ, प्रवव्रजतुश्च तत एवोत्पन्नवैराग्यौ, जातौ विकृष्टतपोनिष्टप्तदेही, प्राप्ताश्चाभ्यां तेजोलेश्यादिलब्धयः, समापत्तितश्च गतौ हस्तिनागपुरं, प्रविष्टो मासक्षपणपारणके तत्र भिक्षार्थं संभूतयतिः, दृष्टश्च नमु चिना, जातोऽस्य चेतसि दुरध्यवसायो-मदुश्चरितमयंप्रकाशयिष्यतीति, निर्भत्सितो-धिग् मुण्ड चाण्डाल! क्व नगरस्यान्तःऽप्रविष्टोऽसि? इत्यादिनिष्टुरवचोभिः, प्रहत इष्टकोपलशकलादिभिस्तत्परिजनेन, तदनु च समस्तलोकेन, कुपितश्चासौ तेभ्यः समस्तजनदहनक्षमासातेजोलेश्यां मोक्तुमुपचक्रमे, तत्र च मुखविनिर्यद्वहलधूमपटलान्धकारितदिक्चक्रवाले व्याकुलितः सान्तःपुरः सनत्कुमारचक्रवर्ती सकलो नगरलोकश्च समायातस्वत्पावें, तदृत्तान्तश्रवणतश्चित्रश्च, प्रारब्धस्तैरनेकधा सान्त्वनवचनैरुपशमयितुं, तथाऽपि तत्रात्मानमस्मरत्यतिकोपवशगे भगवति मा भूदस्माकमकस्माद्भस्मीभवनमिति स्त्रीरत्नसहितो महीपतिस्तं क्षमयाम्बभून, यथा-भगवन् ! क्षमितव्यमस्माकमिदमिति, अस्मिश्चान्तरे स्त्रीरत्नकोमलालकस्पर्शसमुत्पन्नतदभिलाषो विगलितानुशयश्चाण्डालजातिरेव ममैवमनेकधा कदर्थनाहेतुरिति चिन्तयंश्चित्रयतिना निवार्यमानोऽपि यदि ममास्य तपसः फलमस्ति तदाऽन्यजन्मनि चक्रवत्तित्वमेव मम भयाद् येनाहमप्येवं ललितललनाविलासास्पदमुत्तमजातिश्च भवामीति निदानवशगोऽनशनं प्रपेदे।
ततः स तपोऽनुभावतो नलिनगुल्मविमाने वैमानिकत्वेनाजनि, ततश्च च्युतश्चुलन्यां ब्रह्मदत्तः समुत्पेदे । क्व? इत्याह - मू.(४०८/१)
कपिले संभओ वृ. 'काम्पिल्य' इति पञ्चालमण्डलस्य तिलक इव काम्पिल्यनाग्नि गनरे 'संभूत' इति पूर्वजन्मनि संभूतनामा। अमुंपादमतिक्रान्तसूत्रोत्तरपादद्वयं चैतद्गदितार्थप्रसङ्गायातार्थान्तराभिधानद्वारतः स्पृशन् सूत्रस्पशिकनियुक्तिमाह नियुक्तिकृत्नि.[ ३३६] राया य तत्थ बंभो कडओ तइओ कणेरदत्तोति ।
राया य पुप्फचूलो दीहो पुन होइ कोसलिओ॥ नि.[३३७] एए पंच वयंसा सव्वे सह दारदरिसिणो भोच्चा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org