________________
३०८
उत्तराध्ययन-मूलसूत्रम्-१-१२/३८१ त्वितरजनसाधारणेन, तदनेन विभूतावपि नि:स्पृहत्वमुक्तं, पुनस्तन्माहात्म्यमाहमू. ( ३८२) महाजसो एस महानुभागो, घोरवओ घोरपरक्कमो य।
मा एयं हीलह अहीलनिजं, मा सचे तेएण भेनिद्दहिज्जा ।। वृ. 'महायसा' अपरिमितिकोति: 'एष' प्रत्यक्षो मुनिर्महानुभाग:-अतिशयाचिन्त्यशक्तिः, पाठान्तरतो महानुभावो वा, तत्र चानुभावः-शापानुग्रहसामर्थ्य, 'घोरखतो' धृतात्यन्तदुर्द्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिजयं प्रति रौद्रसामर्थ्यो, यतोऽयमीहक् ततः किमित्याह'मा' इति निषेधे 'एन' यति 'हीलयत' अवधूतं पश्यत 'अहीलनीयम्' अवज्ञातुमनुचित्तं, किमित्याह आह-मा सर्वान्-समस्तांस्तेजसा-तपोमाहात्म्येन 'मे' भवतो निर्घाक्षीद्भस्यसात्कार्षीद्, अयं हि हीलितो यदि कदाचिद्रुष्येत्तदा सर्च भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः ।। अत्रान्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः कृतवांस्तदाहमू.( ३८३) एयाइं तीसे वयणाइंसुच्चा, पत्तीइ भद्दाइ सुभासियाई।
इसिस्स वेयावडियट्ठयाए, जक्खा कुमारे विणिवारयति ।। वृ. 'एतानि' अनन्तरोक्तानि 'तस्याः' अनन्तरोक्तायाः 'वचनानि' भाषितानि 'श्रुत्वा' निशम्य पत्या:' यज्ञवाटकाधिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, 'भद्राया' भद्राधिभानायाः 'सुभाषितानि सुक्तानि वचनानीति योज्यते, ऋषेः-तस्यैव तपस्विनः 'वेयावडिट्ठयाए'त्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे प्रयोजने व्यावृत्ता भवाम इत्येवमर्थं यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तृन् 'विनिपातयन्ति' विविधं नितरां पातयन्ति-भूमौ विलोलयन्ति, पठ्यते च-'विनिवारयति'ति विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति, मू. (३८४) ते घोररूवा ठिअ अंतलिक्खे, असुरा तर्हि तं जाणं तालयंति।
ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो। वृ. तथा 'ते' इति यक्षाः 'घोररूपा' रौद्राकारधारिणः 'ठिय'त्ति स्थिताः अन्तरिक्षे' आकाशे 'असुरा' आसुरभावान्वितत्वात् त एव यक्षाः तस्मनि' यज्ञवाटे 'तम्' उपसर्गकारिणं 'जनं' छात्रलोकं 'ताडयन्ति' अन्ति, ततस्तान् कुमारान् भिन्ना-विदारिताः प्रक्रमाद्यक्षप्रहारैर्देहा:शरीराणि येषां ते भिन्नदेहास्तान् रुधिरं-शोणितं वमतः-उद्गिरतः ‘पासत्ति'त्ति दृष्ट्वा 'भद्रा' सैव कौशलिकराजदुहिता 'इदं वक्ष्यमानं 'आहुत्ति वचनव्यत्ययेनाह-ब्रूते भूयः' पुनरिति सूत्रद्वयार्थः । किं तदित्याहमू. ( ३८५) गिरिं नहेर्हि खणह, अयं दंतेहिं खायह।
जायतेयं पायेहि हणह जे भिक्खं अवमन्नह ।। व. 'गिरिं' पर्वतं 'नखैः' कररुहै: "खनथ' विदारयथ, इह च मुख्यखननक्रियाद्यसम्भवादिववतिमन्तेरणाप्युपमार्थो गम्यते, ततश्च खनथेव खनथ, 'अयो' लोहं 'दन्तैः' दशनैः खादथेव खादथ, जाततेजसम्-अग्निं पादै:-चरणैर्हथेव हथ, ताडययेत्यर्थः, ये वयं कि कुर्मः इत्याहये यूयं भिक्षु प्रक्रमादेनं अवमन्नह'त्ति अवमन्यध्वे-अवधीरयथ, अनर्थफलत्वात्, भिक्ष्वपमनास्येति भावः, कथमिदमित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org