________________
३०७
अध्ययनं-१२,[ नि. ३२७] वाक्यालङ्कारे इति सूत्रार्थः ।। अत्रान्तरे यदभूत्तदाहमू.(३७८) अज्झावयाणं वयणं सुनित्ता, उद्धाइया तत्थ बहू कुमारा।
दंडेहिं वित्तेहिं कसेहिं चेव, समागया तं इसि तालयंति।। वृ. अध्यापकानाम्-उपाध्यायानाम्, एकत्वेऽपि पूज्यत्वाद्वहुवचनं, 'वचनम्' उक्तरूपं 'श्रुत्वा' आकर्ण्य 'उद्धाविता' वेयेन प्रसृताः 'तत्र' यत्रासौ मुनिस्तिष्ठति 'बहवः' प्रभूता: 'कुमार' द्वितीयवयोवर्तिनश्छात्रादय इति गम्यते, ते हि क्रीडनकपरा इत्यही क्रीडनकमागतमिति रभसतो 'दण्डैः' वंशयष्टयादिभित्रैः-जलजवंशात्मकैः ‘कशैः' वघ्रविकारैः, च: समुच्चये, एवेति पूरणे, 'समागताः' सम्प्राप्ता मिलिता वा तमृषि-मुनि ताडयन्ति' नन्ति, सर्वत्र वर्तमाननिर्देशः प्राग्वत् इति सूत्रार्थः ।। अस्मिश्चावसरेमू. ( ३७९) रन्नो तर्हि कोसलियस्स धूया, भद्दत्ति नामेन अनिंदियंगी।
तं पासिया संजय हम्ममानं, कुद्धे कुमारे परिनिव्ववेइ ।। वृ. 'राज्ञो' नृपतेस्तत्र-यज्ञवाटे कोशलायां भव: कौशलिकस्तस्य धूय'त्ति दुहिता भद्रेति 'नाम्ना' अभिधानेन 'अनिन्दिताङ्गी' कल्याणशरीरा 'तं' हरिकेशबलं 'पासिय'त्ति दृष्टवा 'सञ्जय'त्ति संयतं तस्यामप्यवस्थायां हिंसादेः सम्यगुपरतं 'हन्यमानं' दण्डादिभिस्ताडयमानं 'क्रुद्धानं' कोपवत: 'कुमारान्' उक्तरूपान् 'परिनिर्वापयति' कोपाग्निविध्यापनात् समन्तात् शीतीकरोति उपशमयतीतियादविति सूत्रार्थः ।। सा च तान् परिनिर्वापियन्ती तस्य माहात्म्यमतिनि:स्पृहतां चाहमू.( ३८०) देवाभिओगेण निओइएणं, दिना मुरना मनसा न झाया।
नरिंददेविंदऽभिवंदिएणं, जेनामि वंता इसिणा स एसो॥ वृ. देवस्य-अमरस्याभियोगो-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन न त्वप्रियेतिकृत्वा 'दिन्नामु'त्ति दत्ताऽस्मि, अहं यस्मै इति गम्यते, दत्ता च केन?-राज्ञा प्रक्रमात्कौशलिकेन, तथापि मणस'त्ति अपेर्गम्यमानत्वान्मनसाऽपि-चित्तेनापि'नध्याता'नचिन्तिता नाभिलषितेतियावत्, प्रक्रमादेतेन मुनिना, कीदृशेन?-नरेन्द्राश्च-नृपतयो देवेन्द्राश्च-शक्रादयो नरेन्द्रदेवेन्द्रास्तैरभि-आभिमुख्येन वन्दितः-स्तुतो नरेन्द्रदेवेन्द्राभिवन्दितस्तेन, अनभिध्याताऽपि नृपोपरोधतः स्वीकृता स्यादत आह-येनास्म्यहं 'वान्ता' त्यक्ता ऋषिणा' मुनिना, स एष युष्माभिर्यः कदर्थयितुमारब्धः, ततो न कदर्थयितुमुचित इति भावः, पुनरिममेवा) समर्थयितुमाहमू.( ३८१) एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी।
जो मे तया निच्छई दिज्जमानी, पिउणा सयं कोसलिएण रना । वृ. 'एसो हु सो'त्ति, एष एव स न मनागप्यत्र संशयः, उग्रं-उत्कटं दारुणं वा कर्मशत्रून् प्रति तपः-अनशनाद्यस्येति उग्रतपाः, अत एव महान-प्रशस्या विशिष्टवीर्योल्लासत आत्मा अस्येति महात्मा, जितेन्द्रियः संयतो ब्रह्मचारी च प्राग्वत्, स इति क? इत्याह-यो 'मि'त्ति मां 'तदा' तस्मिन् विवक्षितसमये 'नेच्छति' नाभिलषति 'दीयमानां' निसृज्यमानां, केन?-'पित्रा' जनकेन 'स्वयं' आत्मना, न तु प्रधानप्रेषणादिना, तेनापि कीदृशा?-कौशलिकेन राज्ञा, न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org