________________
अध्ययनं-१२,[नि. ३२७]
३०९ मू. (३८६) आसीविसो उग्गतवो महेसी, घोरवओ, घोरपरक्कमो य।
अगर्नि व पक्खंद पयंगसेना, जे भिक्खं भत्तकाले वहेह॥ व. आस्यो-दंष्ट्रास्तासु विषमस्येत्यासीविष:-आसीविबलब्धिमान, शापानुग्रहसमर्थ इत्यर्थः, यद्वा आसीविष इव आसीविषः, यथा हि तमत्यन्तमवजानानो मृत्युमेवाप्नोति, एवमेनमपि मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पुनरयमेवंविधो?, यतः-उग्रतपाः प्राग्वत्, 'महेसि'त्ति महान्-बृहन् शेषस्वर्गाद्यपेक्षया मोक्षस्तमिच्छति-अभिलषतीति महदेषी महर्षिर्वा, घोखतो घोरपराक्रमश्च पूर्ववत, यतश्चैवमतः 'अगणिव'त्ति अग्नि-ज्वलनं, वाशब्द इवार्थो भिन्नक्रमश्च, ततः 'पक्खंद'त्ति प्रस्तकन्दथेव-आक्रामथेव, केव?-'पतंगसेन'त्ति उपमार्थस्य गम्यमानत्वात्पतङ्गानां-शलभाना सेनेव सेना-महती सन्ततिः पतङ्गसेना तद्वत्, यथा हि असौ तत्र निपतन्त्याशु घातमाप्नोत्येवं भवन्तोऽपीति भावः, ये यूयमनुकम्पितं भिक्षु भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेवश्यं देयमिति शिष्टसमयो यूयं तु न केवलं न यच्छत किन्तु तत्रापि 'वधह'त्ति विध्यथ-ताडयथ, अयमाशयो-यतोऽयमासीविषादिविशेषणान्वितो मुनिरतो गिरिनखखननादिप्रायमेव यदेनं भक्तकालेऽपि भक्तार्थिनमित्थं विध्यथ । मू.(३८७) सीसेण एवं सरणं उवेह, समागया सव्वजनेन तुम्हे।
जइ इच्छह जीवियं वा धनं वा, लोगपि एसो कुविओ डहिज्जा ।। वृ.अथस्वकृत्योपदेशमाह-'शीर्षण' शिरसा 'एन' मुनि शरणार्थ' रक्षणार्थमाश्रयमुपेतअभ्युपगच्छत, किमुक्तं भवति ?-शिरःप्रणामपूर्वकमयमेवास्माकं शरणमिति प्रपद्यध्वं, 'समागताः' सम्मिलिताः 'सर्वजनेन' समस्तलोकेन, सहार्थे तृतीया, 'यूयं भवन्तो, यदीच्छतअभिलषत जीवितं' प्राणधारणात्मकं धनं वा द्रव्यं, न तस्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्छरणमस्ति, किमित्येवमत आह-'लोकमपि' भुवनमप्येष कुपित:-क्रुद्धो 'दहेद्' भस्मात्कृर्यात्, तथा च वाचकः
"कल्पान्तोग्रानलवत्प्रज्वलनं तेजसैकतस्तेषाम् ।।" तथा लौकिका अप्याहुः
“न तत् दूरं यदश्वेषु, यवाग्नौ यच्च मारुते ।
विषे च रुधिरप्राप्ते, साधौ च कृतनिश्चये ।।" इति सूत्रत्रयार्थः ॥ सम्प्रति तत्पतिस्तान् यादृशान् ददर्श दृष्ट्वा च यदचेष्टत तदाहमू.( ३८८) अवहेडियपिटिसउत्तमंगे, पसारियाबाहुअकम्मचिढ़े।
निन्भेरियच्छे रुहिरं वमंते, उड्डेमुहे निग्गयजीहनिते ॥ वृ. 'अवे'त्यधो 'हेडिय'त्ति हेठितानि-बाधितानि, किमुक्तं भवति ?-अधोनामितानि, पठन्ति च 'आवडिए'त्ति तत्र सूत्रत्वादवकोटितानि-अधस्तादामोटितानि 'पट्टि'त्ति पृष्ठं यावत् तदभिमुखं वा सन्ति-शोभनान्युत्माङ्गानी येषां ते अवहेठितपृष्ठसदेत्तमाङ्गः अवकोटितपृष्ठसदुत्तमाङ्गो वा, प्राग्वन्मध्यपदलोपी समसास्तान्, 'पसारियाबाहुअकम्मचिट्ठ'त्ति प्रसारिताविरलीकृता बाहवो-भुजा यैर्येषां वा ते तथा ततस्ते च ते अकर्मचेष्टाश्च-अविद्यमानकर्महेतुव्यापारतया प्रसारितबाह्यकर्मचेष्टास्तान्, यद्वा क्रियन्त इति कारणि-अग्नौ समित्प्रक्षेप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org