________________
३०५
अध्ययनं-१२,[नि.३२७]
ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ।
अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत्।।२।। । न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपायुपेतेषु तत्त्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सच्छास्त्रात्मिका, सच्छास्त्रेषु च सर्वेष्वहिंसादिपञ्चकमेव वाच्यं, यत उक्तम्
"पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्।
अहिंसा सत्यमस्तेयं, त्यागो मैथुनवजनम्॥" तद्युक्त्वयं च तत्तज्ज्ञानादेव भवति, ज्ञानस्य तु विरतिः फलं रागाद्यभावश्च, यत उक्तम्
__ "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः ।
तमसः कुतोऽस्ति? शक्तिर्दिनकरकिरणाग्रतः स्थातुम्॥" । न चैवमग्न्याद्यारम्भिषु कोपादिमत्सु च भवत्सु विरते रागाद्यभावस्य च सम्भवोऽस्ति, न च निश्चयनयमतेन फलरहितं वस्तु सत्, तथा च निश्चयो यदेवार्थक्रियाकारि तदेव परमार्थसदित्याह, ततः स्थितमेतत्-'ताई तु'त्ति तुरवधारणे भिन्नक्रमश्च, ततश्च तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, क्रोधाधुषेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः । कदाचिते वदेयु:-वेदविद्याविदो वयमत एव च ब्राह्मणजातयस्तत्कथं जातिविद्याविहीना इत्युक्तावानसीत्याहमू.(३७४ ) तुभित्थ भो! भारहरा गिराणं, अटुं न याणाह अहिज्ज वेए।
उच्चावयाई मुणिणो चरंति, ताइंतु खित्ताई सुपेसलाई। व.यूयमत्रेति-लोके 'भो' इत्यामन्त्रणे भारं धरन्तीति भारधराः, पाठान्तरतो वा-'भारवहा' वा, कासां?- 'गिरां' वाचां, प्रक्रमाद्वेदसम्बन्धिनीनाम्, इह च भारस्तासां भूयस्त्वमेव, किमिति भारधरा भारवहा वेति उच्यते, यतोऽर्थम् अभिधेयं न जानीथ-नावबुध्यध्वे ?, 'अहिज्ज'त्ति अपेर्गम्यमानत्वादधीत्यापि 'वेदान्' ऋग्वेदादीन्, तथाहि-'आत्मा वा रे ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः" तथा "कर्मभिर्मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविनमन्विच्छमानाः, अथापरं कर्मभ्योऽमृतत्वमानशुः,
परेण नाकं निहितं गुहायां, विभ्रायते यद्यतयो विशन्ति ।
वेदाहमेनं पुरुषं महान्तं, तमेव विदित्वा अमृतत्वमेति ।। 'नान्यः पन्थाः अयनाये' त्वादिवचनानां यद्यर्थवेत्तार: स्युस्तत्किमित्थं यागादि कुर्तीरन्?, ततस्तत्त्वतो वेदविद्याविदो भवन्ता न भवन्ति, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः? । कानि तर्हि भवदभिप्रायेण क्षेत्राणीत्याह-'उच्चावयाई'त्ति उच्चावचानि-उत्तमाधमानि मुनयश्चरन्ति-भिक्षानिमित्तं पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भप्रवृत्तयः, त एव परमार्थतो वेदार्थं विदन्ति, तत्रापि भैक्षवृत्तेरेव समर्थितत्वात्, तथा च वेदानुवादिनः
"चरेद् माधुकरी वृत्तिमपि म्लेच्छकुलादपि ।
एकानं नैव भुञ्जीत, बृहस्पतिसमादपि ।।" 28/20]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org