________________
३०४
उत्तराध्ययन-मूलसूत्रम्-१-१२/३७१ __ वृ. 'स्थलेषु' जलावस्थितिविरहितेषूच्च भूभागेषु 'बीजानि' गोधूमशाल्यादीनि 'वपन्ति' रोपयन्ति कासग'त्ति कर्षकाः कृषीवलाः, तथैव' यथोच्चस्थलेष्वेवमेव 'निम्नेषु च नीचभूभागेपुच आससाए'त्ति आशंसया-यद्यत्यन्तप्रवर्षणां भावि तदा स्थलेषु फलावाप्तिरथान्यथा तदा निम्नेष्वित्येवमभिलाषात्मिकया, एतयेवैतया-एतदुपमया, कोऽर्थः ? -उक्तरूपकर्षकाशंसातुल्यया 'श्रद्धया' वाञ्छया 'दलाह'त्ति ददध्वं मह्यं, किमुक्तं भवति ? -यद्यपि भवतां निम्नोपमत्वबुद्धिरात्मनि मयितु स्थलतुल्यताधी: तथापि मह्यमपि दातुमुचितम्, अथ स्याद्-एवं दत्तेऽपि न फलावाप्तिरित्याह-'आराहए पुनमिणं खु'त्ति खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वादाराधयेदेव-समन्तात्साधयेदेव, नात्रान्यथाभावः, 'पुण्यं शुभमिदं-परिदृश्यमानं क्षेत्रमिव क्षेत्रं पुण्यशस्यप्ररोहहेतुतया, आत्मानमेव पात्रभूतमेवमाह, पठ्यते च-'आराहगा होहिम पुन्नखेत्त'न्ति आराधका-आवर्जका गम्यमानत्वात्पुण्यस्य भवत, अनेन दानफलमाह, कुत एतदित्याह-इदं पुण्यक्षेत्रं-पुण्यप्राप्तिहेतुः क्षेत्रं यत इति गम्यते, इति सूत्रार्थः ।।
यक्षवचनानन्तरं त इदमाहु:मू. (३७२) खित्ताणी अम्हं विझ्याणि लोए, जहिं पकिन्ना विरुहति पुन्ना।
जे माहणा जाइविज्जोववेया, ताई तु खित्ताईसुपेसलाई। वृ. क्षेत्राणी'ति क्षेत्रोपमानि प्रात्राण्यस्माकं विदितानि' ज्ञातानि, वर्तन्त इति गम्यते, लोके' जगति 'जहिं'ति वचनव्यत्ययाद्येषु क्षेत्रेषु प्रकीर्णानीव प्रकीर्णानि-दत्तान्यशनादीनि 'विरोहन्ति' जन्मान्तरोपसथानत: प्रादुर्भवन्ति पूर्णानि' समस्तानि, न तु तथाविधदोषसद्भावतः कानिचिदेव, स्यादेतद्-अहमपि तन्मध्यवर्येवेत्याशङ्कयाह-ये 'ब्राह्मणाः' द्विजाः, तेऽपि न नामत एव, किन्तु जातिश्च-ब्राह्मणजातिरूपा विद्या च-चतुर्दशविद्यास्थानात्मिका ताभ्याम् 'उववेय'त्ति उपेता-अन्विता जातिविद्योपेताः, ताई तु'त्ति तान्येव क्षेत्राणि 'सुपेसलाणि'त्ति सुपेशलं नाम शोभनं प्रीतिकरं वा इति वृद्धाः, ततश्च सुपेशलानि-शोभनानि प्रीतिकराणि वा, न तु भवादृशानि शूद्रातीनि, शूद्रजातित्वादेव वेदादिविद्याबहिष्कृतानीति, यत उक्तम्
"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे ।
सहस्रगुणमाचार्ये, अनन्तं वेदपारगे।" इति सूत्रार्थ: यक्ष उवाचमू. (३७३) कोहो य मानो य वहो य जेसि, मोसं अदत्तं च परिगहं च।
ते माहणा जाइविज्जाविहीणा, ताइंतु खित्ताईसुपावयाई॥ वृ. 'क्रोधश्च' रोष: 'मानश्च' गर्वः, चशब्दान्मायालोभौ च, 'वधश्च' प्राणिघातो 'येषा' मिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसं'ति मृषा-अलीकभाषणं 'अदत्त'ति पदेऽपि पदैकदेशस्य दर्शनात्सत्यभामा सत्येतिवत् अदत्तादानमुक्तं, चशब्दान्मैथुनं, परिग्रहश्च' गोभूम्यादिस्वीकार:, अस्तीति सर्वत्र गम्यते, 'ते' इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याभ्यां विहीनारहिता जातिविद्याविहीनाः, क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था, यत उक्तम्
___"एकवर्णमिदं सर्वं, पूर्वमासीधुधिष्ठिर! । क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ।।१।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org