________________
अध्ययनं-१२,[ नि.३२७]
३०३ संयतः-असद्वयापारेभ्य उपरतः, अत एव च ब्रह्मचारी-ब्रवर्यवान्, तथा विरतो निवृत्तः, कुतो?- धनं च पचनं च परिग्रहश्च धनपचनपरिग्रहमिति समाहार: तस्मात्, तत्र धनं चतुष्पदादि पचनमाहारनिष्पादनं परिग्रहो द्रव्यादिषु मूर्छा, अत एव च परस्मै प्रवृत्तंपरैः स्वार्थं निष्पादितत्वेन परप्रवृत्तं तस्य, तुरवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थं साधितस्येति भावः, 'भिक्षाकाले' भिक्षाप्रस्तावे, कदाचिदकालोऽयं ब्रूयादित्येवमुक्तं, 'अन्नस्य' अशनस्य अट्ठ'त्ति सूत्रत्वादाय, भोजनार्थमिति भावः, 'इह' अस्मिन् यज्ञवाटके आगतोऽस्मि, अनेन यदुक्तं-कतर त्वं किमिहागतोऽसि?, तत्प्रतिवचनमुक्तम्, एवमुक्ते च ते कदाचिदभिदध्युः-नेह किञ्चित् कस्मैचिद्दीयते न वा देयमस्त्यत आहम.(३६९) वियरिज्जइ स्वज्जइ शुज्जइ य, अन्नं पश्रयं भवयाणमेयं ।
जाणाहि मे जायणजीविनुत्ति, सेसावसेसं लहओ तवस्सी। वृ. 'वितीर्यते' दीयते दीनानाथादिभ्यः खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अद्यत इत्यन्नं स सर्वमपि सामान्येनोच्यते, तदप्यल्पमेव स्यादत आह-'प्रभूतं' बहु, प्रभूतमपि परकीयमेव स्यात्, अत आह-'भवता' युष्माकमेव सम्बन्धि 'एतदिति प्रत्यक्षं, तथा च 'जानीत' अवगच्छत 'मे'त्ति सूत्रत्वानां जायणजीविनो'त्ति याचनेन जीवनं-प्राणधारणमस्येति याचन जीवनं, आर्षत्वादिकारः, पठ्यते च-'जायणजीवणो'त्ति, इतिशब्दः स्वरूपपरामर्शकः, तत एवंस्वरूपं, यतश्चैवमतो मह्यमपि ददध्वमिति भावः, कदाचिदुत्कृष्टमेवासौ याचत इति तेषामाशयः स्यादत आह, अथवा जानीत मां याचनजीविनं-याचनेन जीवनशीलं, द्वितीयार्थे षष्ठी, पाठान्तरेतु प्रथमा, 'इती'त्यस्माद्धेता:, किमित्याह-शेषावशेषम्-उद्धरितस्याप्युद्धरितम्, अन्तप्रान्तमित्यर्थः, लभतां-प्राप्नोतु, तपस्वी-यतिर्वराको वा भवदभिप्रायेण, अनेनात्मानं निर्शितीति सूत्रद्वयार्थः ।। एवं यक्षेणोक्ते यज्ञवाटवासिनः प्राहु:मू. ( ३७०) उवक्खडं भोयण माहणाणं, अत्तट्ठियं सिद्धमिहेगपक्खं ।
नऊ वयं एरिसमनपाणं, दाहामु तुझं किमिहं ठिओऽसि? ।। वृ. 'उपस्कृतं' लवणवेसवारादिसंस्कृतं 'भोयण'त्ति भोजनं माहनानां-ब्राह्मणानां आत्मनोऽर्थः आत्मार्थस्तस्मिन् भवमात्माथिकं, ब्राह्मणैरप्यात्मनैव भोज्यं न त्वन्मस्मै देयं, किमिति?, यतः सिद्धं-निष्पन्नं 'इह' अस्मिन् यज्ञे एक: पक्षो-ब्राह्मणलक्षणो यस्य तदेकपक्षं, किमुक्तं भवति? -यदस्मिन्नुपस्क्रियते न तद्ब्राह्मणव्यतिरिक्तायान्यस्मै दीयते, विशेषतस्तु शूद्राय, यत उक्तम्
"न शूद्राय मतिं दद्यानोच्छिष्टं न हविः कृतम्।
न चास्योपदिशेद् धर्म, न चास्य व्रतमादिशेत् ।।" यतश्चैवमतो'न तु' नैव वयभीदृशमुक्तरूपं अन्नं च-ओदानादि पानं च -द्राक्षापानाद्यन्नपानं 'दाहामो'त्ति दास्यामः 'तझं तितुभ्यं, किमिह स्थितोऽसि?. नैवेहावस्थितावपितव किञ्चिदिति भाव इति सूत्रार्थः । यक्ष आहमू.(३७१) थलेसु बीयाइं वयंति कासया, तहेव निन्नेसु य आससाए।
एयाइ सद्धाइ दलाह मज्झं, आराहए पुनमिणं खु खित्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org