________________
उत्तराध्ययन-मूलसूत्रम्-१-१२/३६५ कव्यपदेशवत्, विकृततया वा दुर्दर्शमिति दीप्तमिव दीप्तमुच्यते, कालो वर्णतो विकरालो दन्तुरतादिना भयानक: पिशाचवत् स एव विकरालक: 'फोक्क'त्ति देशीपदं, ततश्च फोक्का-अग्रे स्थूलोन्नता च नासाऽस्येति फोकनासः अवमानि-असाराणि लघुत्वजीर्णत्वादिना चेलानिवस्त्राण्यस्येत्यवमचेलकः, पांशुना-रजसा पिशाचवद्भूदतो-जात: पांशुपिशाचभूत: गमकत्वात्समासः, पिशाचो हि लौकिकानां दीर्घश्मश्रुनस्वरोमा पुनश्च पांशुभिः समविध्वस्त इष्टः,
ततः सोऽपि निष्परिकर्मतया रजोदिग्धदेहतया चैवमुच्यते, 'संकरे'ति सङ्करः, स चेह प्रस्तावात्तृणभस्मगोयमाङ्गारादिमीलक उक्कुरुडिकेतियावत् तत्र दुष्यं-वस्त्र सङ्करदुष्यं, तत्र हि यदत्यन्तनिष्कटंनिरुपयोगी तल्लोकैरुत्सृज्यते, ततस्तत्प्रायमन्यदपि तथोक्तं, यद्वा उज्झितधर्मकमेवासौ गृह्णातीत्येवमभिधानं, 'परिहरिय'त्ति परिवृत्त्य, निक्षिप्येत्यर्थ: क्व? - 'कण्ठे' गले, स ह्यनिक्षिप्तोपकरण इति स्वमुपधिमुपादायैव भ्राम्यति, अत्र कण्ठैकपार्श्व: कण्ठशब्द इति कण्ठे परिवृत्त्येत्युच्यत इति सूत्रद्वयार्थः ।।
इत्थं दूरादागच्छन्नुक्तः, सन्निकृष्टं चैनं किमूचुरित्याहमू. (३६६)कयरे तुम इय अदंसणिज्जे?, काए व आसा इहमागओऽसि? ।
ओमचेलगा पंसुपिसायभूया, गच्छ क्खलाहि किमिहं ठिओऽसि ।। वृ. कतरस्त्वं, पाठान्तरश्च-कोरे त्वम्, अधिक्षेपे रेशब्दः 'इती' त्येवमदर्शनीयो-द्रष्टुमनह:, 'कया वा किरूपया वा?, आसा इहमागओऽसि'त्ति अचां' सन्धिलोपौ बहुल' मितिवचनादेकारलेपो, मकास्थागमिकः, तत आशया-वाञ्छया 'इह' अस्मिन्यज्ञपट्टके आगत:प्राप्तोऽसि-भवसि, अबमचेलक: पांसुपिशाचभूत इति च प्राग्वत्, पुनरनयोरुपादानमत्यन्ताधिक्षेपदर्शनार्थं, गच्छ-प्रव्रज, प्रक्रमादितो यज्ञवाटकात्, 'खलाहि'त्ति देशीपदमपसरेत्यस्यार्थे वर्तते, ततोऽयमर्थः-अस्मदृष्टिपथादपसर, तथा किमिह स्थितोऽसि त्वं ?, नैवेह त्वया स्थातव्यमिति भाव इति सूत्रार्थः । एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजल्पति तत्सान्निध्यकारी मण्डीतिन्दुकयक्षो यदचेष्टत तदाहमू. (३६७) जक्खो तहि तिदुयरुक्खवासी, अनुकंपओ तस्स महामुनिस्स।
पच्छायइत्ता नियगं सरीरं, इमाइं वयणाई उदाहरित्या ।। वृ. यक्षो-व्यन्तरविशेषः, तस्मिन् अवसरइति गम्यते, तिन्दुको नाम वृक्षस्तद्वासी, तथा च सम्प्रदायः-तस्स तिंदुगवणस्स मज्झे महंतो तिंदुगरुक्खो, तहिं सो वसति, तस्सेव हेट्ठा चेइयं, जत्थ सो साहू चिट्ठति । 'अनुकंपउ'त्ति अनुशब्दोऽनुरूपार्थे ततश्चानुरूपं कम्पते-चेष्टत इत्यनुकम्पक:-अनुरूपक्रियाप्रवृत्तिः, कस्येत्याह-'तस्य' हरिकेशबलस्य महामुनेः' प्रशस्यतपस्विनः 'प्रच्छाद्य' प्रकर्षणावृत्य निजकम्-आत्मीयं शरीरं, कोऽभिप्राय:? -तपस्वीशरीर एवाशिष्य स्वयमनुपलक्ष्यः सन्निमानि-वक्ष्यमानानि 'वचनानि' वचांसि 'उदाहरित्थ'त्ति उदाहार्षीदुदाहृतवानित्यर्थः, इति सूत्रार्थः ।। कानि पुनस्तानि?, इत्याहमू. (३६८) समणो अहं संजउ बंभयारी, विरओ धनपयणपरिग्गहाओ।
परप्पवित्तस्स उभिक्खकाले, अन्नस्स अट्ठा इहभागओमि॥ वृ. श्रमणो-मुनिः अह' मित्यात्मनिर्देशः, किमभिधानत एवेत्याशङ्कयाह-सम्यग् यतः
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org