________________
३०१
अध्ययनं-१२,[नि. ३२७]
भिक्खट्ठा बंभइज्जमि, जन्नवाडमुवढिओ ।। वृ.मनोगुप्त्या-मनोनियन्त्रणात्मिकया गुप्तः-संवृतो मनोगुप्तो, मध्यमपदलोपी समासः, मनो गुप्तमस्येति वा मनोगुप्तः, आहिताग्न्यादित्वाच्च गुप्तशब्दस्य परनिपातः, एवं वाग्गुप्तोनिरुद्धवाकप्रसरः, कायगुप्तः, असत्कायक्रियाविकलो, जितेन्द्रियः प्राग्वत्, पुनरुपादानमस्य कादाचित्कत्वनिराकरणार्थमतिशयख्यापनार्थं वा, भिक्षार्थ' भिक्षानिमित्तं, न तु निष्प्रयोजनमेव, निष्प्रयोजनगमनस्यागमे निषिद्धत्वात्, 'बंभइज्जमि'त्ति ब्रह्मणां-ब्राह्मणानामिज्या-यजनं यस्मिन् सोऽयं ब्रह्मज्यस्तस्मिन्, 'जन्नवाडंति यज्ञवाटे यज्ञपाटे वा 'उपस्थितः' प्राप्त इति सूत्रार्थः ।। त च तत्राऽऽयान्तमवलोक्य तत्रत्यलोका यदकर्व्वस्तदाहमू. ( ३६३) तं पासिऊणमिज्जंतं, तवेण परिसोसियं।
पंतोवहिउवगरणं, उवहसंति अनारिया।। वृ.'त'मिति बलनामानं मुनि 'पासिऊणं'ति दृष्ट्वा-निरीक्ष्य 'एज्जंत'न्ति आयान्तमागच्छन्तं तपसा-षष्ठाष्टमादिरूपेण परि-समन्ताच्छोषितम्-अपचितीकृतमांसशोणितं कृशीकृतमितियावत् परिशोषितं, तथा प्रान्तं-जीर्णमलीनत्वादिभिरसारमुपधि:-वर्षाकल्पादिः स एव च उपकरणं-धर्मशरीरोपष्टम्भहेतुरस्येति प्रान्तोपध्युपकरणस्तं, यद्वोपधिः स एवोपकरणम्औपग्रहिकं, द्वन्द्वगर्भश्च बहुब्रीहिः, 'उवहसंति'त्ति उहसन्ति आर्या:- उक्तनिरुक्ता न तथा अनार्याः, यद्वा अनार्या-म्लेच्छाः, ततश्च साधुनिन्दादिना अनार्या इव अनार्या इति सूत्रार्थः॥ कथं पुनरनार्याः?, कथं चोपहसितवन्तस्ते? इत्याहमू.(३६४) जाइमयं पडिथद्धा, हिंसगा अजिइंदिया।
अबंभचारिणो बाला, इमं वयणमब्बवी।। मू. (३६५) कयरे आगच्छई दित्तरूवे?, काले विकराल फुक्कनासे।
ओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिय कंठे॥ . वृ. जातमिदो-जातिदर्पो यदुत ब्राह्मण वयमिति तेन प्रतिस्तब्धाः पाठान्तरतः प्रतिबद्धा वा ये ते तथाप 'हिंसका:' प्राण्युपमईकारिणः 'अजितेन्द्रिया' न वशीकृतस्पर्शनादयोऽत एवाब्रह्म-मैथुनं तच्चरितुं-आसेवितुं शीलं धर्मो वा येषां तेऽमी अब्रह्मचारिणो, वर्ण्यते हि तन्मते मैथुनमपि
"धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः ।
ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥" तथा अपुत्रस्य गतिर्नास्ती'त्यादि, अत एव वाला इव बालक्रीडितानुकारिष्वग्निहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं कर्म, बालक्रीडेति लक्ष्यते" ईदृशास्ते किमित्याह-'इदं' वक्ष्यमानलक्षणं 'वचनं' वचः 'अब्बविपत्ति आर्षत्वाद्वचनव्यत्ययेन अब्रुवनउक्तवन्तः । कि तदित्याह- कयरे'त्ति कतरः, एकारस्तु प्राकृतत्वात्, तथा च तल्लक्षणं-'ए होति अयारंते' इत्यादि, एवमन्यत्रापि, आगच्छति-आयाति, पठ्यते च-'को रे आगच्छइ'त्ति, ते ह्यन्योऽन्यमाहुः-कोऽयमीहक 'र' इति लधोरामन्त्रणं साक्षेपवचनेषु च दृश्यते, 'दित्तरूवे'त्ति दीप्तं रूपमस्येति दीप्तरूपः, दीप्तवचनं त्वतिवीभत्सोपलक्षकम्, अत्यन्तदाहिषु स्फोटके शीतल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org