SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २९४ उत्तराध्ययन-मूलसूत्रम्-१-११/३४६ वृ. यथा स तीक्ष्णे-निशिताग्रे शृङ्गे-विषाणे यस्य स तथा, जात:-अत्यन्तोपचितीभूतः स्कन्धः-प्रतीत एवास्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत्, तदुपचये हि शेषाङ्गान्युपचितान्येवास्य भवन्ति, 'विराजते' विशेषेण राजते-शोभते 'वृषभः' प्रतीतो, यूथस्य- गवां समूहस्याधिपतिः-स्वामी यूथाधिपतिः सन्, एवं भवति बहुश्रुतः, सोऽपि हि परपक्षभेत्तृतया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्राभ्यां शृङ्गाभ्यामिवलोपलक्षितः गच्छगुरुकार्यधुराधरणधौरेयतया च जातस्कन्ध इव जातस्कन्धः, अत धव च यूथस्य-साध्वादिसमूहस्याधिपतिः--आचार्यपदवीं गतः सन् विराजते इति सूत्रार्थः ।। अन्यच्चमू. ( ३४७) जहा से तिक्खदाढे, ओदग्गे दुप्पहंसए। सीहे मियाण पवरे, एवं भवइ बहुस्सुए।। वृ. यथा स तीक्ष्णा:-निशिता दंष्ट्राः-प्रतीता एव यस्य स तीक्ष्णदंष्ट्रः, 'उदग्रः' उत्कट उदग्रवय:स्थितत्वेन वा उदग्रः, अत एव 'दुप्पहंसए'त्ति दुष्प्रधर्ष एव दुष्प्रधर्षक:-अन्यर्दरभिभव: "सिंह:' केशरी 'मृगाणाम्' आरण्यप्राणिनां प्रवरः' प्रधानो भवति, एवं भवति बहुश्रुतः, अयमपि हि परपक्षमेत्तृतया तीक्ष्णदंष्ट्राभिरिव नैगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभवः इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः ।। अपरं चम.(३४८) जहा से वासुदेवे, संखचक्कगदाधरे। अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए॥ वृ.यथा स 'वासुदेवः' विष्णुः, शङ्खश्च-पाञ्चजन्यः चक्रं च-सुदर्शनं गदा च-कौमोदकी शङ्खचक्रगदास्ताधारयति-वहतीति शङ्खचक्रगदाधरः, अप्रतिहतम्-अन्यैः स्खलयितुमशक्यं बलं-सामर्थ्यमस्येत्यप्रतिहतबलः, किमुक्तं भवति?-एकं सहजसामर्थ्यवानन्यच्च तथाविधायोधान्वित इति, युध्यतीति योधः-सुभटो भवति, एवं भवति बहुश्रुतः, सोऽपि ह्येकं स्वाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदाभिरिव सम्यग्दर्शनज्ञानचारित्रैरुपैत इति, योध इव योधः कर्मवैरिपराभवं प्रतीति सूत्रार्थः ॥ अपरंमू. (३४९) जहा से चाउरते, चक्कवटी महिड्डिए। चोद्दसरयणाहिवई, एवं हवइ बहुस्सुए। ७. यथा स चतसृष्वपि दिक्ष्वन्त:-पर्यन्त एकत्र हिमवानन्यत्र च दिक्त्रये समुद्रः स्वसम्बन्धितयाऽस्येति चतुरन्तः, चतुर्भिर्वा-हयगजरथनरात्मकैरन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधितः, महती ऋद्धिः-समृद्धिरस्येति महद्धिकः-दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि "सेनावइ गाहावइ पुरोहिय गय तुरंग वइग इत्थी। चक्कं छत्तं चम्म मणि कागिणी खग्ग दंडो य॥" तेषामधिपतिः चतुर्दशरत्नाधिपतिः, 'एवं भवति बहुश्रुतः सोऽपि ह्यासमुद्रमहीमण्डलख्यातकीतिः तिसृषुदिक्ष्वन्यत्र चबन्दीभूतविद्याधरवृन्द इति दिक्चतुष्टव्यापिकीर्तितया चतुरन्त उच्यते, चतुर्भिर्वा दानादिधर्फरन्त:कर्मवैरिविनाशोऽस्येति चतुरन्तः, ऋद्धयश्चामऔंषध्यादयश्चक्रवर्तिनमपि योधयेदित्येवंविधपुलाकलब्ध्यादयश्च महत्य एवास्य भवन्ति, सन्ति चास्यापि चतुर्दशरत्नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy