________________
अध्ययनं-११,[नि.३१७]
२९३ असुयमेव भवति, अहवा इहलोए परलोए य सोहइ पत्तदाई, अहवा एवंगुणजाइए भिक्खू बहुस्सुए भवति, धम्मो कित्ती जसो य हवइ, सुयमाराहियं हवइ, अहवा इहलोए परलोए य विरायइ, अहवा सीलेण य सुएण य" इति सूत्रार्थः ।। पुनर्बहु-श्रुतस्तवमाहमू.(३४३) जहा से कंबोयाणं, आइने कथए सिया।
आसे जवेण पवरे, एवं हवइ बहुस्सए। वृ. 'यथा' येन प्रकारेण 'स' इति प्रतीत: 'काम्बोजदेशोद्भवानां प्रक्रमादश्वानां, निर्धारणे षष्ठी, 'आकोर्णः' व्याप्तः, शीलादिगुणैरिति गम्यते, 'कन्थकः' प्रधानोऽश्लो, यः किल दृषच्छकलभृतकुतुपनिपतनध्वनेर्न सन्त्रस्यति, स्यात्' भवेत् 'अश्व:' तुरङ्गमः 'जवेन'वेगेन प्रवरः' प्रधानः 'एवम्' इत्युपनये तत ईदृशो भवति बहुश्रुतः, जिनधर्मप्रपन्ना हि वतिनः काम्बोजा इवाश्वेपु जातिजवादिभिर्गुणैरन्यधार्मिकापेक्षया श्रुतशीलादिभिर्वरा एव, अयं त्वाकीर्णकन्थकाश्ववत् तेष्वपि प्रवर इति सूत्रार्थः । किञ्चमू. ( ३४४) जहाइन्नसमारूढे, सूरे दढपरक्कमे।
उभओ नंदिघोसेणं, एवं हवइ बहुस्सए ।। वृ. यथा आकीर्णं-जात्यादिगुणोपेतं तुरङ्गमं सम्यगारुढ:-अध्यासितः आकीर्णसमारूढः, सोऽपि कदाचित् कातर एव स्यादत आह-'शूरः' चारभटः दृढः- गाढ: पराक्रमः-शरीरसाम
र्थ्यात्मको यस्य स तथा, 'उभउ'त्ति उभयतो वामतो दक्षिणतश्च यद्वाऽग्रतः पृष्ठतश्च 'नन्दीघोषेण' द्वादशतूर्यनिनादात्मके न, यद्वा आशीर्वचनानि नान्दी जीयास्त्वमित्यादीनि तद्घोषेण बन्दिकोलाहलात्मकेन, लक्षणे तृतीया, एवं भवति बहश्रुतः, किमुक्तं भवति?-यथैवंविधः शूरो न केनचिदभिभूयते न चान्यस्तदाश्रितः, तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्तः तद्विजयं च प्रति समर्थ: उभयतश्च दिनरजन्योः स्वाध्यायघोषरूपेण स्वपक्षपरपक्षयोर्वा चिरं जीवत्वसौ येनानेन प्रवचनमुद्दीपितमित्याद्याशीर्वचनात्मकेन नान्दीघोषेणोपलक्षितः परतीथिभिरतीव मदावलितैरवि नाभिभवितुं शक्यः, न चात्र प्रतपत्येतदाश्रितोऽन्योऽपि कथञ्चिज्जीयत इति सूत्रार्थः । तथामू. (३४५) जहा करेणुपरिकिन्ने, कुंजरे सहिहायणे।
बलवंते अप्पडिहए, एवं भवइ बहुस्सए॥ वृ. 'यथा' करेणुकाभिः-हस्तिनीभिः परिकीर्णः-परिवृतो यः स तथा, न पुनरेकाक्येव 'कुञ्जरः' हस्तीषष्टिायनान्यस्येति षष्टिहायन:-षष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम्, अत एव च 'बलवंते'त्ति बलं-शरीरसाम
र्थ्यस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः?-नान्यैर्मदमुखैरपि मतङ्गजैः परांमुखीक्रियते, एवं भवति बहुश्रुतः, सोऽपि हि करेणुभिरिव परप्रसरनिरोधिनीभिरौत्पत्तिक्यादिबुद्धिभिविद्याभिश्च विविधाभिर्वृतः ष्टिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवत्त्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्बहुभिरपि न प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ अन्यच्चम.(३४६) जहा से तिक्खसिंगे, जायक्खंधे विराया।
वसमे जूहाहिवती, एवं भवति बहुस्सुए।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org