________________
२९२
उत्तराध्ययन-मूलसूत्रम्-१-११/३४० विना न यतस्ततश्चेष्टते, प्रस्तुतमुपसंहरनाह-'सुविनितः' सुविनितशब्दवाच्यः इति' इत्येवंविधगुणान्वितः उच्यते, इति सूत्राष्टकार्थः ।। यश्चैवं विनीतः स कीहक् स्यादित्याह"मू. ( ३४१) वसे गुरुकुले निच्चं, जोगवं उवहाणवं ।
पियंकरे पियंवाई से सिक्खं लद्धमरिहति ॥ वृ. 'वसेत्' आसीत क्व?-गुरूणाम्, आचार्यादीनां कुलम्-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपलक्षणं च कुलग्रहणं, 'नित्यं' सदा, किमुक्तं भवति?-यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत्, उक्तं हि-"नाणस्स होइ भागी" इत्यादि, योजनं योगो-व्यापारः, सचेह प्रक्रमाद्धर्मगत एव तद्वान्, अतिशायने मतुप्, यद्वा योगः-समाधि: सोऽस्यास्तीति योगवान्, प्रशंसायां मतुप, उपधानतम्-अङ्गानाध्ययनादौ यथायोगमाचाम्लादितपोविशेषस्तद्वान्, यद्यस्योपधानमुक्तं न तत् कृत्छ्भीरुतयोत्सृज्यान्यथा वाऽधीते शृणोति वा, प्रियम्-अनुकूलं करोतीति प्रियङ्करः, कथञ्चित् केनचिदकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते, अत एव च "प्रियमेव'त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः प्रियवादी, यद्वा-'प्रियङ्करः' आचार्यादेरभिमताहारादिभिरनुकूलकारी, एवं 'प्रियवाद्यपि' आचार्याभिप्रामयानुवर्तितयैव वक्ता, तथा चास्य को गुण इत्याह-'स' एवंगुणविशिष्टः 'शिक्षा' शास्त्रार्थग्रहणादिरूपां लब्धुम्' अवाप्तुम् 'अर्हति योग्यो भवतीति, अनेनैव अविनीतस्त्वेतद्विपरीतः शिक्षा लब्धुं नाहतीत्यर्थादुक्तं भवति, तथा च यः शिक्षां लभते स बहुश्रुतः इतर स्त्वबहुश्रुत इति भाव इति सूत्रार्थः । एवं च सविपक्षं बहुश्रुतं प्रपञ्चतोऽभिधाय प्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारं तस्यैव स्तवद्वारेणाहमू. ( ३४२) जहा संखंमि पयं निहियं, दुहओवि विराया।
एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं। वृ. 'यथा' इति दृष्टान्तोपन्यासे 'शो' जलजे 'पयो' दुग्धं निहितं' न्यस्तं' दुहओवित्ति द्वाभ्यां प्रकाराभ्यां द्विधा, न शुद्धतादिना स्वसम्बन्धिगुणलक्षणैनैकेनैव प्रकारेण, किन्तु स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्धयेनापीत्यपिशब्दार्थ:, 'विराजते' शोभते, तत्र हि न तत् कलुषीभवति, न चाम्लतां भजते, नापि च परिस्त्रवति, ‘एवम्' अनेन प्रकारेण बहुश्रुते 'भिक्खु'त्ति आर्षत्वाद् भिक्षौ-तपस्विनि, 'धर्मः' यतिधर्मः 'कीर्तिः' श्लाघा 'तथा' इति धर्मकीर्तिवत् 'श्रुतम्' आगमो, विराजत इति सम्बन्धः, किमुक्तं भवति?-यद्यपि धर्मकीतिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभाभाज्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शङ्ख इव पयो बहुश्रुते स्थितान्याश्रयगुणेन विशेषत: शोभन्ते, तान्यपि हि न तत्र मालिन्यम् अन्यथाभावं हानि वा कदाचन प्रतिपद्यन्ते, अन्यत्र त्वन्यथाभूतभाजनस्थपयोवदन्यथाऽपि स्युः, वृद्धास्तु व्याचक्षते_ 'यथे' त्यौपम्ये, 'संखंमि' संखभायणे 'पयं' खीरं निहितं' ठवितं न्यस्तमित्यर्थः, 'दुहतो' उभयतो संखो खीरंच, अहवा ठवंतओखीरंच, संखेन परिस्सवति न य अंबीभवति, 'विरायति' सोभति, ‘एव'मुपसंहारो अनुमाने वा 'बहुसुओ' सुत्तत्थविसारतो, जानक इत्यर्थः, 'तस्स' एवं भिक्खुभायणे दितस्स धम्मो भवति कित्ती जसो तथा सुयमाराधियं भवति, अपत्ते दितस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org