________________
अध्ययनं-११,[ नि. ३१७] मू. (३३७) अह पन्नरसहि ठाणेहिं, सुविनीएत्ति वुच्चइ।
नीयावित्ती अचवले, अमाई अकुऊहले ॥ वृ. अथ पञ्चदशभिः स्थानैः सुष्टु-शोभनो विनीतो-विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह-"नियावित्ति'त्ति नीचम्-अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्तत इत्येवंशीलो नीचवर्ती-गुरुषु न्यग्वृत्तिमान्, यथाऽऽह
"नीयं सेज्जं गई ठाणं, नियं च आसनानि य।
नियं च पाय वंदेज्जा, नीयं कुज्जा य अंजलि ॥" 'अचपल:' नाऽऽरब्धकार्यं प्रत्यस्थिरः, अथवाऽचपलो-गतिस्थानभाषाभावभेदतश्चतुर्धा, तत्र-गतिचपल:-द्रतचारी, स्थानचपल:-तिष्ठन्नपि चलन्नेवास्ते हस्तादिभिः भाषाचपल:असदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाच्चतुर्धाः, तत्र असद्-अविद्यमानमसभ्यंखरपुरुषादि असीमक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी चतुर्थः अतीते कार्ये यो वक्ति-यदिदं तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यद्, भावचपल: सूत्रेऽर्थे वाऽसमाप्त एव योऽन्यद् गृह्णाति, 'अमायी' न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः, 'अकुतूहल:' न कुहुकेन्द्रजालाधवलोकनपरः, मू. (३३८) अप्पं च अहिक्खिवति, पबंधं च न कुव्वइ।
मित्तिज्जमानो भजति, सुयं लद्धं न मज्जति॥ वृ. 'अल्पं च' इति स्तोकमेव अधिक्षिपति' तिरस्कृरुते, किमुक्तं भवति?-नाधिक्षिपत्येव तावदसौ कञ्चन, अधिक्षिपन् वा कञ्चन कङ्कटुकरूपं धर्म प्रति प्रेरयन्त्रल्पमेवाधिक्षिपति, अभाववचनो वाऽल्पशब्दः, तथा च वृद्धा:-"अल्पशब्दो हि स्तोकेऽभावे च", ततो नैव कञ्चनाधिक्षिपति, प्रबन्धं चोक्तरूपं न करोति, मित्रीय्यमानः' उक्तन्यायेन भजते' मित्रीयितारमुपकुरुते, नतु प्रत्युपकारंप्रत्यसमर्थः कृतघ्नो वा, श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानतः सुतरामवनमति, मू. (३३९) न य पावपरिक्खेवी, न य मित्तेसु कुप्पति।
अप्पियस्सावि मित्तस्स, रहे कल्लाण भासइ ।। वृ. 'न च' नैव ‘पापपरिक्षेपी' उक्तरूपः, न च मित्रेभ्यः कृतज्ञतया कथञ्चिदपराधेऽपि कुप्यति, अप्रियस्यापि विधत्ते तथाऽप्येकमपि सुकृतमनुस्मरन् न रहस्यपि तद्दोषमुदीरयति,
"एकसुकृतेन दुष्कृतशतानि ये नाशयन्ति ते धन्याः।
न त्वेदकदोषजनितो येषां कोप: स च कृतघ्नः ।।" मू.(३४०) कलहडमरवज्जए, बुद्धे (अ) अभिआइए।
हिरिमं पडिसंलीणो, सुविनीएत्ति वुच्चइ ।। वृ.इति, कलहश्च-वाचिको विग्रहः डमरंच-प्राणिघातादिभिस्तद्वर्जको, 'बुद्धो' बुद्धिमान्, एतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसङ्ख्याविरोधः, अभिजातिए'त्ति अभिजाति:-कुलीनता ता गच्छति-उत्क्षिप्तभारनिर्वाहणादिनेत्यभिजातिगः, ही:-लज्जा सा विद्यतेऽस्य ह्रीमान्, कथञ्चित् कलुषाध्यवसायतायामप्यकार्यमाचरन् लज्जते, 'प्रतिसंलीनः' गुरुसकाशेऽन्यत्र वा कार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org