SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० उत्तराध्ययन-मूलसूत्रम्-१-११/२३३ सुब्ब्यत्ययेन सप्तम्यर्थे तृतीया, 'वर्तमानः' तिष्ठन् 'तुः' पूरणे 'संयतः' तपस्वी, अविनीत उच्यते, ‘स तु' इत्यविनीतः पुनः, किमित्याह-'निर्वाणं च' मोक्षं, चशब्दादिहैव ज्ञानादींश्च 'न गच्छति' न प्राप्नोति ।। कानि पुनश्चतुर्दश स्थानानित्याह-- मू.(३३४) अभिक्खणं कोही भवइ, पबंधं च पकुव्वइ। मित्तिज्जमानो वमति, सुयं लभृण मज्जइ॥ वृ. 'अभीक्ष्णं' पुनः पुनः, यद्वा-क्षणं क्षणममि अभिक्षणम्-अनवरतं 'क्रोधी' क्रोधनः भवति, सनिमित्तनिमित्तं वा कुप्यनेवास्ते, 'प्रबन्धं च' प्रकृतत्वात् कोपस्यैवाविच्छेदात्मकं 'पकुव्वइ'त्ति प्रकर्षेण कुरुते, कुपितः सन् सान्त्वनैरनेकैरपि नोपशाम्यति, विकथादिषु वाऽविच्छेदेन प्रवर्तनं प्रबन्धस्तं च प्रकुरुते, तथा 'मेत्तिज्जमानो'त्ति मित्रीय्यमानोऽपि मित्रं ममायमस्त्वितीष्यमानोऽपि अपिशब्दस्य लुतनिर्दिष्टत्वात् ‘वमति' त्यजति, प्रस्तावान्मित्रयितारं मैत्री वा, किमुक्तं भवति?-यदि कश्चिद्धार्मिकतया वक्ति-यथा त्वं न वेत्सीत्यहं तव पात्रं लेपयामि, ततोऽसौ प्रत्युपकारभीरुतया प्रतिवक्ति-ममालेमेतेन, कृतमपि वा कृतघ्नतया न मन्यत इति वमतीत्युच्यते, तथा 'सुयं'ति अपेर्गम्यमानत्वात् श्रुतमपि-आगममपि लब्ध्वा' प्राप्य 'माद्यति दर्प याति, किमुक्तं भवति? -श्रुतं हि मदापहारहेतुः, स तु तेनापि दप्यति । मू. ( ३३५) अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पति। - सुप्पियस्सावि मित्तस्स, रहे भासइ पावगं ।। वृ.तथा 'अपि:' सम्भावनायां, सम्भाव्यत एतत्, यथाऽसौ पापैः-कथञ्चित् समित्यादिषु स्खलितलक्षणैः परिक्षिपति-तिरस्कृरुत इत्येवंशीलः पापरिक्षेपी, आचार्यादीनामिति गम्यते, तथा अपिः' भित्रक्रमः, ततः 'मित्रेभ्योऽपि' सुहृद्योऽप्यास्तामन्येभ्यः 'कुप्यति' क्रुध्यति, सूत्रे तु चतुर्थ्यर्थे सप्तमी, "क्रुधिद्रुहेाऽसूयार्थानां यं प्रति कोप" इत्यनेनेह चतुर्थीविधानात्, तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य रहसि' एकान्ते भाषते' वक्ति पापमेव पापकं, किमुक्तं?-अग्रतः प्रियं वक्ति पृष्ठस्तु प्रतिसेवकोऽयमित्यादिकमनाचारमेवाविष्करोति । मू.( ३३६) पइन्नावाई दुहिले, थद्धे लुद्धे अनिग्गहे। असंविभागी अचियत्ते, अविनीएत्ति वुच्चइ।। वृ. तथा प्रकीर्णम्-इतस्ततो विक्षिप्तम्, असम्बद्धमित्यर्थः, वदतिजल्पतीत्येवंशीलः प्रकीर्णवादी, वस्तुतत्त्वविचारेऽपि यत्किञ्चनवादीत्यर्थः, अथवा-य: पात्रमिदमपात्रमिदमिति वाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशीलः प्रकीर्णवादी इति, प्रतिज्ञया वाइदमित्थमेव इत्येकान्ताभ्युपगमरूपया वदनशीलः प्रतिज्ञावादी, तथा 'दुहील'त्ति द्रोहणशीलोद्रोग्धा, न मित्रमप्यनभिद्रुह्यास्ते, तथा 'स्तब्धः' तपस्व्यमित्याद्यहळूतीमान्, तथा 'लुब्धः' अन्नादिष्वभिकाङ्क्षावान्, तथा 'अनिग्रहः' प्राग्वत्, तथाऽसंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यतिगर्द्धनोऽन्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति, तथा 'अचियत्ते'त्ति अप्रीतिकार:-दश्यमानः सम्भाष्यमानो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितः अविनीत उच्यते इति निगमनम् । इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy