SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ११, [ नि. ३१७] २९५ तपमानि सकलातिशयनिधानानि पूर्वाणीति कथं न चक्रवर्तितुल्यताऽस्येति सूत्रार्थः ॥ अन्यच्च - जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवई, एवं हवइ बहुस्सए || मू. ( ३५० ) वृ. यथा स सहस्रमक्षीण्यस्येति सहस्राक्षः सहस्रलोचन:, अत्र च सम्प्रदायः - 'सहस्सक्खत्ति पंच मंतिसया देवाणं तस्स, तेसि सहस्सं अच्छीणं, तेसि नीईए विक्कमति, अहवा जं सहस्सेणं अच्छीणं दीसति तं सो दोहिं अच्छीहिं अब्भहियगरागं पेच्छती 'ति । वज्रवज्राभिधानमायुधं पाणावस्येति वज्रपाणिः, लोकोकत्वा च पूर्दारणात् पुरन्दरः, क ईदृगित्याहशको 'देवाधिपतिः ' देवानां स्वामी, एवं भवति बहुश्रुतः, सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानतुल्येन लोचनसहस्त्रेणेव जानीते, यश्चैवं तस्यैवविधत्वोपलक्षणं, वज्रमपि लक्षणं पाणी सम्भवतीति वज्रपाणिः, पूश्च शरीरमप्युच्यते, तद्विकृष्टतपोऽनुष्टानतो दारयतीव दारयतीति पुरन्दरः, शक्रवत् देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह - "देवावि तं नमसंति, जस्स धम्मे सया मणो "त्ति सूत्रार्थः । अपि च मू. ( ३५१ ) जहा से तिमिरविद्धसे, उत्तिटुंति दिवागरे । जलते इव तेएणं, एवं भवइ बहुस्सुए । वृ. यथा सः तिमिरम्-अन्धकारं विध्वंसयति - अपनयति तिमिरविध्वंसः, 'उत्तिष्ठन् ' उद्गच्छन् 'दिवाकरः' सूर्य:, स हि ऊर्ध्वं नभोभागमाक्रामन्नतितेजस्वितां भजते अवतरंस्तं न तथेत्येवं विशिष्यते, यद्वा उत्थानं प्रथममुद्गमनं तत्र चायं न तीव्र इति तीव्रत्माभावख्यापकमेतत्, अन्यदा हि तीव्रोऽयमिति न सम्यग् दृष्टान्तः स्यात्, 'ज्वलन्निव' ज्वालां मुञ्चन्निव 'तेजसा ' महसा, एवं भवति बहुश्रुतः, सोऽपि ह्यज्ञानरूपतिमिरापहारक: संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उपसर्पस्तपस्तेजसा च ज्वलन्निव भवतीति सूत्रार्थः ॥ अन्यच्चजहा से उडुवई चंदे, नक्खत्तपरिवारिए । मू. ( ३५२ ) पडिपुन्ने पुनिमासीए, एवं भवइ बहुस्सए ॥ वृ.यथा सः उडूनां-नक्षत्राणां पतिः प्रभुः उड्डपतिः, क इत्याह-'चन्द्रः' शशी, 'नक्षत्रैः ' अश्विन्यादिभिः, उपलक्षणत्वाद्ग्रहैस्ताराभिश्च परिवारः - परिकरः सञ्जातोऽस्येति परिवारितः नक्षत्रपरिवारितः 'प्रतिपूर्ण:' समस्तकलोपेतः, स चेदृक् कदा भवति ? अत आह- पौर्णमास्याम् । इह च चन्द्र इत्युक्ते मा भून्नामचन्द्रादावपि सम्प्रत्ययः इत्युडुपतिग्रहणं, उडुपतिरपि च कश्चिदेकाक्येव भवति मृगपतिवत् अत उक्तं नक्षत्र परिवारितः सोऽप्यपरिपूर्णोऽपि द्वितीयादिषु सम्भवतीति परिपूर्ण: पौर्णमास्यामित्युक्तं, एवं भवति बहुश्रुत:, असावपि हि नक्षत्राणामिवानेकसाधूनामधिपतिः तथा तत्परिवारितः सकलकलोपेतत्वेन प्रतिपूर्णश्च भवतीति सूत्रार्थः ॥ जहा से सामाइयाणं, कोट्टागारे सुरक्खिए । नानाधन्नपडिप्पुन्ने, एवं हवइ बहुस्सुए || मू. ( ३५३ ) वृ. यथा स 'सामाइयाणं 'ति समाज: समूहस्तं समवयन्ति सामाजिकाः - समूहवृत्तयो लोकास्तेषां पठन्ति च - 'सामाइयंगाणं 'ति तत्र च श्यामा-अतसी तदादीनि च तानि अङ्गानी च उपभोगाङ्गतया श्यामाद्यङ्गानि धान्यानि तेषां 'कोट्टागारे 'त्ति कोष्ठा-धान्यपल्यास्तेषामगारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy