________________
अध्ययनं-१०,[ नि. ३०९]
२८५ मुपायं स्वगृहाभिमुखमागच्छन्नतिभीरुतयाऽन्यवस्त्वन्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिदिनानि सभ्यगुवहति, अनन्तरंच क्वचिदुपलादिसंकुले पथि अहो। अहमनेन भारेणाऽ5क्रान्त इति तमुत्सृज्य स्वगृहमागत: अत्यन्तनिर्धनतयाऽनुतप्यते--किं मया मन्दभाग्येन तत्परित्यक्तमिति?, एवं त्यमपि प्रमादपरतया त्यक्तसंयमभार: सन्नेवंविधो मा भूः, किन्तु समयमपि गौतम ! मा प्रमादीरिति सत्रार्थः ।। बह्विदमद्यापि निस्तरणीयमल्पं च निस्पीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाहमू. ( ३२४) तिम्रो हुसि अन्नवं महं, किं पुन चिट्ठसि तीरमागओ? |
अभितुर पारंगमित्तए, समयं०॥ वृ. 'तिन्नो हु सि'त्ति तीर्ण एवासि, अर्नवमिवार्णवं 'महंति महान्तं गुरुं, किमिति प्रश्ने पुनरिति वाक्योपन्यासे, ततः किं पुनस्तिष्ठसि ?, 'तीरं' पारम् 'आगतः' प्राप्तः, किमुक्तं भवति? - भव उत्कृष्टस्थितीनि वा कर्माणि भावतोऽर्णव इत्युच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एव इति केन हेतुना तीरप्राप्तोऽप्यौदासीन्यं भजसे?, नैवेदं तवोचितमित्याशयः । किन्तु 'अभितुर'नि अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव, ‘पारं' परतीरं भावतो मुक्तिपदं 'गमित्तए'त्ति गन्तुम्, अतश्च समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ।। अथापि स्यात्-मम पारप्राप्तियोग्यतैव न समस्ति, अत आह-अथवा शेषशिष्यापेक्षया किमस्याप्रमादस्य फलम् ? यत्पुनः पुनरयमुपदिश्यते इत्याहमू. ( ३२५) अकलेवरसेणिमूसिया, सिद्धिं गोयम! लोयं(य) गच्छसि।
खेमं च सिवं अनुत्तरं, समय० ॥ वृ. कलेवरं-शरीरम् अविद्यमानं कडेवरमेपामकडेवरा:-सिद्धास्तेषां श्रेणिरिव श्रेणिर्ययोत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति(तां), क्षपक श्रेणिमित्यर्थः । यद्वा कडेवराणि-एकेन्द्रियशरीराणि तन्मयत्वेन तेषां श्रेणिः कडेवरश्रेणिः-वंशादिविरचिता प्रासादादिप्वारोहणहेतुः, तथा च या नसा अकडेवरश्रेणि:-अनन्तरोक्तरूपैव ताम् 'उस्सिय'त्ति उत्सृतां, गमिष्यसीति सम्बन्धः, यद्वा 'उस्सिय'त्ति उच्छ्रित्येवोच्छ्रित्य-उत्तरोत्तरसंयमस्थानावाप्त्या तामच्छ्रितामिव कृत्वा 'सिद्धिम्' इति सिद्धिनामानं 'गोयम! लोयं गच्छसि'त्ति प्राग्वल्लोकं गमिष्यसि, संशयव्यवच्छेदफलत्वाच्चास्य गमिष्यस्येव, 'क्षेमं' परचक्राधुपद्रवरहितं, "च:' समुच्चये भित्रक्रमश्च, 'शिवमनुत्तरं च तत्र शिवमशेषदुरितोपशमेन अनुत्तरं नास्योत्तरमन्यत् प्रधानमस्तीत्यनुत्तरं, सर्वोत्कृष्टमित्यर्थः, यतश्चैवं ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः
सम्प्रति निगमयन्नुपदेशसर्वस्वमाहमू.(३२६). बुद्धे परिनिव्वुए चरे, गाम गए नगरे व संजए।
संतिमग्गं च बूहए, समय० ॥ वृ. 'बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः कषायाग्न्युपशमतः समन्तात् शीतीभूतः 'चरे:' आसेवस्व, संयममिति शेषः, 'गाम'त्ति सुपो लोपात् ग्रामे 'गतः' स्थितो नगरे वा, उपलक्षणत्वादरण्यादिषु वा, किमुक्तं भवति ? - सर्वस्मिन्ननभिष्वङ्गवान्, सम्यग् यतःपापस्थानेभ्य उपरतः संयतः, शाम्यन्त्यस्यां सर्वदुरितानीति शान्ति:-निर्वाणं तस्या मार्गः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org