________________
२८४
उत्तराध्ययन-मूलसूत्रम्-१-१०/३२१ मू. ( ३२१) नहु जिने अज्ज दोसइ, बहुमघ दीसइ मग्गदेसिए।
संपइ नेआउए पहे, समयं ।।। वृ. 'न हु' नैव 'जिन:' तीर्थकृद् ‘अद्य' अस्मिन् काले 'दृश्यते' अवलोक्यते, यद्यपीति गम्यते, तथापि 'बहुमए'त्ति पन्थाः, स च द्रव्यतो नगरादिमार्गः, भावतस्तु सातिशयश्रुतज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः, तत्रेह भावमार्गः परिगृह्यते, 'दृश्यते' उपलभ्यते 'मग्गदेसिय'त्ति भावप्रधानत्वान्निर्देशस्य मार्गत्वेन अर्थान्मुक्तेर्देशितो-जिनैः कथितो मार्गदेशितः, अयमाशय:यद्यपि सम्प्रति जिनो न दृश्यते तदुपदिष्टस्तु मार्गो दृश्यते, न चैवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवति इत्यसन्दिग्धचंतसा भाविनोऽपि भव्या न प्रमादं विधास्यन्तीति,
अत: 'सम्प्रति' इदानीं सत्यपि मयीति भावः, 'नैयानिके' निश्चितमुक्त्याख्यलाभप्रयोजने 'पथि' मार्गे समयमपि गौतम! केवलानुत्पत्तितः संशयविधानेन मा प्रमादी:, यद्वा-त्रिकालविषयत्वात् सूत्रस्य भाविभव्योपदेशकमप्येतत्, ततोऽयमर्थः-यथाऽऽद्यमार्गोपदेशकं नगरं चापश्यन्तोऽपि पन्थानमवलोकयन्तस्तस्याविच्छिन्नोपदेशतस्तत्प्रापकत्वं निश्चिन्वन्ति तथा यद्यप्यद्यजिन उपलक्षणत्वान्मोक्षश्च नैव दृश्यते तथाऽपि तद्देशितः पन्था-मार्यमानत्वात मार्गोंमोक्षस्तस्य 'दसिय'त्ति सूत्रत्वाद्देशको मार्गदेशको दृश्यते, ततस्तस्यापि तत्प्रापकत्वं मामपश्यद्भिरपि भाविभव्यैनिश्चेतव्यं, यतश्चैवं भाविभव्यानामुपदिश्यते अतः सम्प्रतीत्यादि प्राग्वत्, द्विविधाऽपि तावदित्थं व्याख्या सूचकत्वात्, सूत्रस्येति गाथार्थः । अत्रैवार्थे पुनरुपदिशनाहमू. (३२२) अवसोहियं कटंगापह, ओइन्नोऽसि पहं महालयं।
गच्छसि मग्गं विसोहिया, समयं० ।। वृ.'अवसोहिय'त्ति अवशोध्य-अपसार्य पृथक्कृत्य परिहत्येतियावत्, कम्?- 'कंटयापहं'ति आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बब्बूलकण्टकादयः भावतस्तु चरकादिकुश्रुतयस्तैराकुलः पन्थाः कण्टकपथस्तं, ततश्च 'अवतीर्णोऽसि' अनुप्रविष्टो भवसि ‘पहंति पन्थानं 'महालय'ति महान्तं महतां वाऽऽलयः-आश्रयो महालयः, स च द्रव्यतो राजमार्गः भावतस्तु महद्भिस्तीर्थङ्करादिभिरप्याश्रितः सम्यग्दर्शनादिमुक्तिमार्गस्तं, कश्चिदवतीर्णोऽपि मार्ग न गच्छेत् अत आह-'गच्छसि'-यासि मार्ग, न पुनरवस्थित एवासि, सम्यग्दर्शनाद्यनुपालनेन मुक्तिमार्गमनप्रवृत्तत्वाद्भवतः, तत्राप्यनिश्चयेऽपायप्राप्तिरेव स्यात् इत्याह-'विशोध्य' इति विनिश्चित्य, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ।। एवं च पूर्वेण दर्शनविशुद्धिमनेन च मार्गप्रतिपत्तिमभिधाय तत्प्रतिपत्तावपि कस्यचिदनुतापसम्भव इति तन्निराचिकीर्षयाऽऽहमू. (३२३) अबले जह भारवाइए, मा मग्गे विसमेऽवगाहिया।
पच्छा पच्छानुतावए, समयं ।।। वृ. 'अबल:' अविद्यमानशरीरसामर्थ्य: 'यथा' इत्यौपम्ये भारं वहतीति भारवाहकः 'मा' निषेधे 'मग्गे' त्ति मार्ग 'विसमे'त्ति विषमं मन्दसत्त्वैरतिदुस्तरम् 'अवगाहिय'ति अवगाह्य प्रविश्य, त्वक्ताङ्गीकृतभारः सन्निति गम्यते, ‘पश्चात्' तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत्, भूरिति शेषः, इदमुक्तं भवति-यथा कश्चिद्देशान्तरगतो बहुभिपायैः स्वर्णादिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org