________________
२८६
उत्तराध्ययन-मूलसूत्रम्-१-१०/२२६ पन्थाः यद्वा शान्तिः- उपशम: सैव मुक्तिहेतुतया मार्गः शान्तिमार्गो, दशविधधर्मोपलक्षणं शान्तिग्रहणं, चशब्दो भिन्नक्रम:, ततो बृंहयेश्च-भव्यजनप्ररूपणया वृद्धि नये:, ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः । इत्थं भगवदभिहितमिदमाकर्ण्य गौतमो यत् कृतवांस्तदाहमू. (३२७) बुद्धस्स निसम्म भासियं, सुकहियमट्ठपदोवसोहियं ।
रागं दोसंच छिदिया, सिद्धिगई गए गोयमे ॥ वृ. 'बुद्धस्य' के वलालोकावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमाच्छीमन्महावीरस्य 'निशम्य' आकर्ण्य भाषितम्' उक्तं, सुष्ठ-शोभनेन नयानुगतत्वादिना प्रकारेण कथितं-प्रबन्धेन प्रतिपादितं सुकथितम्, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं-जातशोभमर्थपदोपशोभितं 'रागं' विषयाद्यभिष्वङ्गं 'द्वेषम्' अपकारिण्यप्रीतिलक्षणं, 'च:' समुच्चये छित्त्वा' अपनीय सिद्धिगर्ति' मुक्तिगति 'गतः' प्राप्तः ‘गौतमः' इन्द्रभूतिनामा भगवत्प्रथमगणधर इति सूत्रार्थः ।। इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, इत्युक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववत् ।
अध्ययनं-१० समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययन सूत्रे
सनियुक्तिः सटीकं समाप्तम्
अध्ययनं - ११- बहुश्रुतपूजावृ.उक्तंदशममध्ययनं, साम्प्रतमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तं, तच्च विवेकिनैव भावयितुं विवेकश्च बहुश्रुतपूजात उपजायत
इति बहुश्रुतपूजोच्यते इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्ररूप'यितव्यानि, यावत्रामनिष्पने निक्षेपे 'बहुसूत्रपूजा बहुश्रुतपूजे"ति वा नाम, अतस्तन्निक्षेपपप्रतिपिपादयिषयेदमाह नियुक्तिकृतनि.[३१०] बहु सुए पूजाए यतिण्हंपि चउक्कओ य निरखेयो।
दव्वबहुगेण बहुगा जीवा तह पुग्गला चेव।। वृ. 'बहु'त्ति बहोः 'सुए'त्ति शतमुखत्वात् प्राकृतस्य सूत्रस्य श्रुतस्य वा 'पुयाए य'त्ति पूजायाश्च त्रयाणामपि' अमीषां पदानां 'चतुष्कस्तु' चतुष्परिमान एव 'निक्षेपः' न्यासः, स च नामादिः, तत्र नामस्थापने क्षुन्ने, द्रव्यतस्तु बह्वभिधातुमाह-'दव्वबहुएण'त्ति आर्षत्वात् द्रव्यतो बहुत्वं द्रव्यबहुत्वं तेन 'बहुका:' प्रभूताः 'जीवाः' उपयोगलक्षणाः, तथा 'पुद्गला:' स्पर्शादिलक्षणाः, चशब्दः पुद्गलानां जीवापेक्षया बहुतरत्वं ख्यापयति, ते ह्येकै कस्मिन् संसारिजीवप्रदेशेऽनन्तानन्ता एव सन्ति, 'एवः' अवधारणे, जीवपुद्गला एव द्रव्यबहवः, तत्र धर्माधर्माऽऽकाशानामेकद्रव्यत्वात् कालस्यापि तत्त्वत: समयरूपत्वेन बहुत्वाभावादिति नि.[३११] .. भावबहएण बहुगा चउदस पुव्वा अनंतगमजुत्ता।
___भावे खओवसमिए खइयंमि य केवलं नाणं ॥ वृ. भावबहुगेणं'ति प्राग्वत् भावबहुत्वेन बहुग'त्ति बहुकानि 'चतुर्दश' चतुर्दशसङ्घयानि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org