SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २८० £4 'अस्संखोसप्पिणिउस्सप्पिणीउ एगंदियाण उ चउण्हं । ता चेत्र ऊ अनंता वणस्सतीए उ बोद्धव्वा ॥" बेइंदियकाय उक्को० / मू. ( ३०० ) कालं संखिज्जसन्नियं समयं० ॥ वृ. तथा द्वे - द्विसङ्ख्ये इन्द्रिये - स्पर्शनरसनाख्ये येषां ते द्विन्द्रियाः- कृम्यादयः, तत्कायमतिगत उत्कर्षतो जीवस्तु संवसेत् कालं सङ्घयेयसञ्जितं सङ्ख्यातवर्षसहस्रात्मकम्, अतः समयमपि गौतम ! मा प्रमादीः ॥ उत्तराध्ययन- मूलसूत्रम् - १-१०/२९९ मू. ( ३०१ ) तेइंदिय० ॥ मू. ( ३०२ ) उरिदिय० ॥ वृ. एवं त्रीन्द्रियचतुरिन्द्रियसूत्रे अपि भावनीये ।। मू. ( ३०३ ) पंचिदियकायमइगओ उक्कोसं० । सत्तट्टभवग्गहणे समयं० ॥ वृ. तथा पञ्च इन्द्रियाणि-स्पर्शनादीनि येषां ते तथा, ते चोत्तरत्र देवनारकयोरभिधानात् मनुष्यत्वस्य दुर्लभत्वेन प्रक्रान्तत्वात्तिर्यञ्च एव गृह्यन्ते, तत्कायमतिगतः, तत्कायोत्पन्न इत्यर्थः, उत्कर्षतो जीवस्तु संवसेत् सप्त वा अष्ट वा सप्ताष्टानि तानि च तानि भवग्रहणानि च - जन्मोपादानानि सप्ताष्टभवग्रहणानि यतः अतः समयमपि गौतम ! मा प्रमादीः । मू. ( ३०४ ) देवे नरए य गओ, उक्कोसं० । एक्के भवग्गहणे, समयं० ॥ वृ. तथा देवान्नैरयिकांश्च अतिगत उत्कर्षतो जीवस्तु संवसेत् एकैक भवग्रहणं, ततः परमवश्यं नरेषु तिर्यक्षु वोत्पादात् । यद्वा 'उक्कोसंति' उत्कृष्यते तदन्येभ्य इत्युत्कर्षस्तमुत्कृष्टं कालंत्रयस्त्रिंशत्सागरोपममानम्, 'एगेगभवग्गहणं' ति अपेर्गम्यमानत्वादेकैकमवग्रहणमपि संवसति, अतो जीवः संवसेत् अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः । उक्तमेवार्थमुपसंहर्तुमाह पू. (३०५ ) Jain Education International एवं भवसंसारे संसरति सुभासु भेहिं कम्मेहिं । जीवो पमायबहुलो, समयं० ॥ वृ. ' एवम्' उक्तप्रकारेण पृथिव्यादिकायस्थितिलक्षणेन भवा एव तिर्यगादिजन्मात्मकाः संस्त्रियमानत्वात् संसारो भवसंसारस्तस्मिन्, 'संसरन्ति' पर्यटन्ति शुभानि च शुभप्रकृत्यात्मकानि अशुभानि च - अशुभप्रकृतिरूपाणि शुभाशुभानि तै: 'कर्मभिः' पृथ्वीकायादिभवनिबन्धनैः 'जीव:' प्राणी प्रमादैर्बहुलो - व्याप्तः प्रमादबहुल:, यद्वा बहून् - भेदान् लातीति बहुलो मद्याद्यनेकभेदतः प्रमादो-धर्मं प्रत्यनुद्यमात्मकोयस्य स बहुलप्रमादः, सूत्रे च व्यत्ययनिर्देश: प्राग्वत्, इह चायमाशयः- यतोऽयं जीवः प्रमादबहुलः सन् शुभाशुभानि कर्माण्युपचिनोति, उपचित्य च तदनुरूपासु गतिष्वाजवजवी भावमुपगम्य भ्राम्यति, ततो दुर्लभत्वात् पुनर्मानुषत्वस्य प्रमादमूलत्वाच्च सकलानर्थपरम्परायाः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ एवं मनुजभवदुर्लभत्वमुक्तम्, इदानीं तदवाप्तावप्युत्तरोगुणावासिरतिदुरापैवेत्याह For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy