________________
अध्ययनं-१०,[नि. ३०९]
२७९ उपक्रमहंतुभिः अनपवर्त्यतवा यथास्थित्यैवानुभवनीयतां गल्छतीति आयुः, तच्चैवं निरुपक्रमेव तस्मिन्, तथाऽनुकम्पितं जीवितं जीवितकं चशब्दस्य गम्यमानत्वात् तस्मिश्च, अर्थात् सोपक्रमायुषि, बहवः-प्रभूताः प्रत्यपाया-उपघातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तथा, अनेन चानुकम्प्यताहेतुराविष्कृतः, एवं चोक्तरूपद्रुमपत्रोदाहरणत: कुशाग्रजलबिन्दूदाहरणतश्च मनुजायुनिरुपक्रमं सोपक्रमं चेत्वरम्, अतोऽस्यानित्यतां मत्वा 'विधुनीहि' जीवात् पृथक् कुरु 'रजः' कर्म 'पुरेकडंति' पुरा-पूर्वं तत्कालापेक्षया कृतं-विहितं, तद्विधुवनोपायमाहसमयमपि गौतम! मा प्रमादीः, पठन्ति च-एवं मणुयाण जीविए एत्तिरिए बहुपच्चवायए'त्ति सुगममेवेति सूत्रार्थः ॥ स्यात्-पुनर्मनुष्यभवावाप्ता-वुद्यस्याम इत्याहमू. ( २९४) दुलहे खलु मानुस भवे, चिरकालेनवि सव्वपाणिणं।
गाढा य विवाग कम्मुणो, समयं० ।। वृ. 'दुर्लभो' दुरवापः, खलुः' विशेपणे, अकृतसुकृतानामिति विशेषं द्योतयति, 'मानुपो' मनुष्यसम्बन्धी 'भवो' जन्म "चिरकालेनापि' प्रभूतकालेनापि, आस्तामल्पकालेनेत्यपिशब्दार्थः, 'सर्वप्राणिनां' सर्वेषामपि जीवाना, न तु मुक्तिगमनं प्रति भव्यानामिव केषाञ्चित् मनुजभवावाप्ति प्रति सुलभत्वविशेषोऽस्ति, किमेवमत आह-'गाढा' विनाशयितुमशक्यतया दृढाः 'च' इति यस्मात्, 'विपाककम्मुणो'त्ति विपाका:-उदयाः कर्मणां-मनुष्यगतिविधातिप्रकृतिरूपाणां, यत एवमतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः । कथं पुनर्मनुजत्वं दुर्लभं, यद्वा यदुक्तं सर्वप्राणिनां दुर्लभं मनुजत्व'मिति, तत्र एकेन्द्रियादिप्राणिनां तदुर्लभत्वं दर्शयितुकाम: कायस्थितिमाहमू. ( २९५) पुढवीकायमइगओ उक्कोसं जीवो य संवसे ।
कालं संखातीयं समयं गोयम! मा पमायए।। वृ. पृथ्वी-कठिनरूपा सैव कायः-शरीरंपृथ्वीकायस्तमतिशयेन मृत्वा २ तदुत्पत्तिलक्षणेन गतः-प्राप्तः अतिगतः, 'उक्कोसं'त्ति उत्कर्षतो जीवः' प्राणी 'तुः' पूरणे 'संवसेत्' तद्रूपतयैवावतिष्ठेत 'काल' सङ्ख्यातीतं, असङ्ख्यमित्यर्थः, यत एवमतः समयमपि गौतम! मा प्रमादीरिति । म.(२९६)
आउकायम०॥ मू.(२९७)
तेउकाय०।। मू.(२९८)
वाउकाय०॥ वृ. एवमप्कायतेजस्कायवायुकायसूत्रत्रयमपि व्याख्येयं। मू.(२९९)
वणस्सइक्काय० उक्कोसं०।
कालमनंतदुरंत समय० ॥ वृ. तथा वनस्पतिसूत्रं च, नवरं कालमनन्तमिति, अनन्तकायिकापेक्षमेतत्, प्रत्येकवनस्पतीनां कायस्थितेरसङ्घयातत्वात्, तथा दुष्टोऽन्तोऽस्येति दुरन्तस्तम्, इदमपि साधारणापेक्षयैव, ते ह्यत्यन्ताल्पबोधतया तत उद्धता अपि न प्रायो विशिष्टं मानुषादिभवमाप्नुवन्ति ।। इह च 'कालं सङ्घयातीत मिति विशेषानभिधानेऽप्यसङ्खयोत्सप्पिण्यवसर्पिणीमानम्, 'अनन्तमिति चानन्तोत्सर्पिण्यवसर्पिणीप्रमानमित्यवगन्तव्यं, यत आगमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org