SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७८ उत्तराध्ययन- मूलसूत्रम् - १-१० / २९१ अप्पा पडतं पंडुरवत्तं किसलयाणं ॥ नि. [ ३०९ ] नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्ताणं । उमा खलु एस कया भवियजनविबोहणट्टाए || 1 वृ. परिवर्तितं-कालपरिणत्याऽन्यथाकृतं लावण्यम्-अभिरामगुणात्मस्येति परिवर्तितला - वण्यं यतो न तस्य प्रागिव सौकुमार्यादि विद्यते, तथा चलन्तः- शिथिलीभवन्तः सन्धयोयस्मिंस्तत्तथा, अत एव 'मुयंत- वेंटागं 'ति मुञ्चत्-त्यजत् सामर्थ्याद् वृक्षं वृन्तकं - पत्रबन्धनं यस्य तत् मुञ्चन्तकं, वृन्तस्य वृक्षमोचने पत्रस्य पतनमेव भवतीति पतदित्युक्तं भवति, 'पत्रं'(च) पर्णं, व्यसनम् - आपदं प्राप्तं व्यसनप्राप्तं तथा कालः - प्रक्रमात् पतनप्रस्तावस्तं प्राप्तं - गतं कालप्राप्तं ' भणति' अभिधत्ते, गोयत इति गाथा तां - छन्दोविशेषरूपां ॥ तामेवाह 'यथा' इति सादृश्यते, ततो यथा यूयं सम्प्रति किशलयभावमनुभवथ स्निग्धादिगुणैर्गर्वमुद्धहथ अस्मानुपहसथ, तथा वयमप्यतीतदशायां, तथा यूयमपि च भविष्यथ यथा वयमिति, जीर्ण भावे हि यथा वयमिदानीं विवर्णविच्छायतयोपहास्यानि, एवं यूयमपि भावीनीति, 'अप्पाहेइ' त्ति उक्तन्यायेनोपदिशति पितेव पुत्रस्य 'पतत्' भ्रश्यत् 'पाण्डुरपत्रं' जीर्णपत्रं 'किसलया-नाम्' अभिनवपत्राणां । ननु किमेवं पत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, 'नेवास्ति' नैव विद्यते नैव भविष्यति उपलक्षणत्वात् नैत्र भूतः कोऽसौ ? - 'उल्लापः ' वचनं केषां ? - 'किशलयपाण्डुपत्राणाम् ' उक्तरूपाणां, आर्षत्वाच्च यलोपः, तदिह किमेवमुक्तमित्याह - 'उपमा' उपमितिः, खलु एवकारार्थत्वात्, ततः उपमैव, 'एषा' अनन्तरको क्ता 'कृता' विहिता 'भवियजनविबोहणट्ठाए'त्ति प्रतीतमेव । यथेह किशलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीयः, तथा चैतदनुवादिना वाचकेनावाचि"परिभवसि किमिति लोकं जरसा परिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि यौवनगर्वं किमुद्वहसि ? | " तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति गाथात्रयार्थयुक्तसूत्रगमार्थः॥ पुनरायुषोऽनित्यत्वं ख्यापयितुमाह- मू. (२९२ ) कुसग्गे जह ओसबिंदुए, थोवं चिट्ठति लंबमानए । एवं मनुयाण जीवियं, समयं० ॥ वृ. कुशो - दर्भसदृशस्तृणविशेषः, तनुतरत्वाच्च तस्योपादानं, तस्याग्रं प्रान्तस्तस्मिन्, 'यथा' इत्युपमाप्रदर्शकः, अवश्यायः - शरत्कालभावी श्लक्ष्णवर्षस्तस्य बिन्दुरेव बिन्दुकः अवश्यायबिन्दुकः, 'स्तोकम्' अल्पालामिति गम्यते, 'तिष्ठति', आस्ते, 'लम्बमानक: ' मनाग् निपतद्, बद्धास्पदो हि कदाचित् कालान्तरमपि क्षमेतेत्येवं विशेष्यते, 'एवम्' इत्युक्तसदृशं 'मनुजानां' मनुष्याणां मनुजग्रहणं च प्राग्वत्, 'जीवियं' ति जीवितं यत एवं ततः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ अमुमेवार्थमुपसंहरन्नुपदेशमाह Jain Education International - मू. ( २९३ ) इइ इत्तरियमि आउए, जीवितए बहुपच्चवायए । विहणाहि रयं पुराकडं, समयं० ॥ वृ. 'इति' इत्युक्तयायेन ' इत्वरे' अयनशीले, कोऽर्थः ? - स्वल्पकालभाविनि एति - For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy