________________
२६९
अध्ययनं-१०,[ नि. २७९]
(अध्ययन १० दुमपत्रकं) वृ.व्याख्यातं नमिप्रव्रज्याख्यं नवममध्ययनम्, अधुना दशममध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव प्रायो भवति, न च तदुपमा विना स्पष्टमिति प्रथमतः उपमाद्वारेणानुशासनाभिधायकमिदमध्ययनम्, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयमुपदर्शाते, यावनामानिष्पत्रनिक्षेपे द्रुमपत्रकमिति द्विपदं ना, अतो द्रुमस्य पत्रस्य च निक्षेपमाह
नि.[ २८०] निक्लेवो उ दुमंमि चउव्विहो० ।। नि.[२८१]
जाणग सरीरमविए० नि.[ २८२] दुमयाउनामगोयं वेयंतो भावओ दुमो होइ।
एमेव य पत्तस्सवि निखेको चउव्विहो होइ ।। वृ.'निक्षेपः' न्यासः 'तुः' पूरणे 'द्रुमे' द्रुमविषयः 'चतुर्विधः' नामादिः, द्विविधो भवति द्रव्ये आगतमो नोआगमतश्च, सत्रिविधः-ज्ञशरीरभव्यशरीरद्रुमस्तद्यतिरिक्तश्च, स पुनस्त्रिविधःएकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, द्रुमायुर्नामगोत्रं वेदयन् भावतो द्रुमो भवति, एवमेव च पत्रस्यापि चतुर्विधो भवति निक्षेप इति गाथात्रयाक्षरार्थः ।। भावार्थस्तु पूर्ववत्, अन्वर्थनामतामस्यादर्शयन्नाहनि.[ २८३] दुमपत्तेणोवम्म अहाठिईए उवक्कमेणं च।
इत्थ कयं आइंमी तो तं दुमपत्तमज्झयणं ॥ वृ. द्रुमो-वृक्ष: तस्य पर्ण-पत्रं तेनौपम्यम्-उपमा, प्रक्रमादायुषः, केन पुनर्गुणेनौपम्यमित्याह-'यथास्थित्वा' स्वकालपरिपाकतः पातरूपया, तथा उपक्रमणं-दीर्घकालभावन्यिाः स्थिते: स्वल्पकालताऽऽपादनमुपक्रमः, कोऽर्थः?-पाकादारत एव वातादिनाऽवस्थितिविनाशनं, तेन चात्राध्ययने कृतं' विहितम्'आदौ' प्रथमं यस्मात् ततः द्रुमपत्रमित्यध्ययनमिदम्, उच्यते इति शेषः । यथा चास्य समुत्थानं तथा दर्शयंस्त्रयोविंशतिसङ्घयं गाथाकदम्बकमाहनि.[ २८४] मगहापुरनयराओ वीरेण विसज्जणं तु सीसाणं ।
सालमहासालाणं पिट्ठीचंपं च आगमनं ॥ नि.[ २८५] पवज्जा गागिलिस्स य नाणस्स य उप्पया उ तिण्हंपि।
___ आगमनं चंपपुरि वीरस्स अवंदनं तेसिं॥ नि.[ २८६] चंपाइ पुन्नभदंमि चेइए नायओ पहिअकित्ती।
आमंतेउं समणे कहेइ भयवं महावीरो॥ नि.[ २८७] अट्टविहकम्ममहणस्स तस्स पगईविसुद्धलेसस्स।
___ अट्ठावए नगवरे निसीहिए निट्ठिअट्ठस्स॥ नि.[ २८८] उसभस्स भरहपिउणो तेलुक्कपयासनिग्गयजस्स।
जो आरोढुं वंदइ चरिमसरीरो अ सो बाहू॥ नि. [ २८९] साहुं संवासेइ अ असाहुं न किर संवसावेई ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org