________________
२६८
उत्तराध्ययन-मूलसूत्रम्-१-९/२८८ ७. 'ततः तदनन्तरं, पाठान्तरतश्च 'स' इति शक्रो वन्दित्वा 'पादौ चरणों, चक्रं चांकुशश्च प्रतीतावेव, तत्प्रधानानि लक्षणानि ययोस्तौ तथा, मुनिवरस्य नमिनाम्न इति प्रक्रमः, तत 'आकाशेन' नभसा उदिति-ऊर्ध्वं देवलोकभिमुखं पतितो गत उत्पतितः, ललिते च ते सविलासतया चपले च चञ्चलतया ललितचपले तथाविधे कुण्डले कर्णाभरणे यस्यासौ ललितचपलकुण्डलः, स चासौ किरीटी च-मुकुटवान् ललितचपलकुण्डकिरीटी इति सूत्रार्थः ।। स एवंविधः स्वयमिन्द्रेणाभिष्ट्रयमानः किमुत्कर्ष मनस्याप्तवान् उत नेत्याहमू.( २८९) नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ।
चाइऊण गेहं वइदेही, सामन्ने पज्जुवडिओ।। वृ. नमिर्नमयति-भावतः प्रह्वीभवन्तमात्मानं स्वतत्त्वभावनया विशेषतः प्रगुणयति, न तूसिक्ततां नयति, तत्कालापेक्षया लट्, कथंभूतः सन्?-'साक्षात्' प्रत्यक्षतामुपगम्य 'शक्रेण' इन्द्रेण 'चोइतो'त्ति प्रेरित: 'त्यक्त्वा' अपहाय गेहं' गृहं 'वइदेही'त्ति सूत्रत्वाद्विदेहा नाम जनपदः सोऽस्यास्तीति विदेही विदेहजनपदाधिपो, न त्वन्य एव कश्चिदिति भावः, यद्वाविदेहेषु भवा वैदेहि-मिथिला पुरी, सुब्व्यत्ययात्तां च त्यक्त्वेति सम्बन्धनीयं, 'श्रामण्ये' श्रमणभावे ‘पर्युपस्थितः' उद्यतः, अभूदिति शेषः, यद्वा-नमिर्नमयति संयमं प्रति प्रवणीकरोत्यात्मानं, कीदृशः ?-शक्रेण प्रेरितः कथं ? -साक्षात् स्वयं, न त्वन्यपार्श्वप्रहितसन्देशकादिना, श्रामण्ये पर्युपस्थितः, न तु तत्प्रेरणातोऽपि धर्म प्रति विप्लुतोऽभूदितिभाव इति सूत्रार्थः ।। किमेष एवैवंविधः?, उतान्येऽपीत्याहमू. ( २९०) एवं करिति संबुद्धा, पंडिया पवियक्खणा।
विणियट्टति भोगेसु, जहा से नमिरायरिसि।त्तिबेमि वृ.'एवम्' इति यथैतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽपि कुर्वन्ति, उपलक्षणत्वादकार्षः करिष्यन्ति च, न त्वयमेव, निदर्शनतयैवास्योपात्तत्वात्, कीदृशाः पुनरन्येऽप्येवं कुर्वन्ति?'सम्बुद्धाः' मिथ्यात्वापगमतोऽवगतजीवाजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशास्त्रार्थाः 'प्रविचक्षणाः' अभ्यासातिशयतः क्रियां प्रति प्रावीण्यवन्तः तथाविधाश्च सन्तः किं विदधति? -'विनिवर्तन्ते विशेषेण तदासेवनादुपरमन्ति, केभ्यः? - भोगेसुत्ति भोगेभ्यः, किंवत्?-यथा स'नमिः' नमिराजर्षिः निश्चलो भूत्वा तेभ्यो निवृत्त इति, यद्वोपदेशपरमेतत्, यत एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः एवमिति कथमित्याह-भोगेभ्यो विनिवर्तन्ते, विशेषेण-अत्यन्तनिश्चलतालक्षणेन निवर्तन्ते भोगेभ्यो, यथा स 'नमिः' नमिनामा राजर्षिः, ततो भवद्भिरप्येवंविधैरित्थमेव विधेयमिति सूत्रार्थः ।। 'इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत् । नयाश्च प्राग्वदिति ॥
अध्ययनं ९ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे
नवममध्ययनं सनियुक्तिः सटीकं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org