________________
अध्ययनं-९,[नि. २७९]
२६७ 'इन्द्रत्वम्' उत्तरवैक्रियरूपभिन्द्रस्वभावं वन्दते' अनेकार्थत्वात् प्रणमति अभिष्टुवन्' आभि.. मुख्येन स्तुतिं कुर्वन्, 'आभिः' अनन्तरं वक्ष्यमाणाभिः 'मधुराभिः' श्रुतिसुखाभिः' 'वग्गूहि'ति आर्पत्वाद्वाग्भिः-वाणीभिः, तद्यथामू. ( २८४) अहो ते निज्जिओ कोहो, अहो मानो पराइओ।
अहो ते निरक्किया माया, अहो लोभो वसीकओ। वृ. 'अहो' इति विस्मये 'ते' इति त्वया नितराम्-अतिशयेन जित: अभिभूतः निर्जितः 'क्रोधः' कोपः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न क्षुभित इत्यभिप्रायः, तथा 'अहो' 'ते' त्वया 'मानः' अहमितिप्रत्यहेतुः 'पराजितः' अभिभूतः, यस्त्वं मन्दिरं दहाते इत्याद्युक्तेऽपि कथं मयि जीवतीदमिति नाहङ्कतिं कृतवानीति, तथा 'अहो ते नरक्तिय'त्ति प्राकृतत्वानिराकृता-अपास्ता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु निकृतिहेतुकेप्वामोषकोच्छेदनादिषु च न मनो निहितवान्, तथा च अहो ते लोभो 'वशीकृत' इति नियन्त्रितः, यस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेति सहेतुकमभिहितोऽपीच्छाया आकाशसमत्वमेवोदाहृतवान्, अत एव, मू. ( २८५) अहो ते अज्जवं साहू, अहो ते साहु ! मद्दवं ।
अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा । वृ. अहो 'ते' तव आजवम्' ऋजुत्वं 'साधु' शोभनम्, अहो ते साधु 'मार्दवं' मृदुत्वम्, अहो ते 'उत्तमा' प्रधाना 'क्षान्तिः' कोपोपशमलक्षणा, अहो ते 'मुक्तिः' निर्लोभता उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्व्यपि प्ररूपणाऽङ्गमितिकृत्वेति सूत्रत्रयार्थः ॥ इत्थं गुणोपवर्णद्वारेणाभिष्टस्य सम्प्रति फलोपदर्शनद्वारेण स्तुवन्नाहमू.( २८६) इहंऽसि उत्तमो भंते !, पेच्चा होहिसि उत्तमो।
लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छति नीरओ॥ वृ. 'इह' अस्मिन् जन्मनि असि' भवसि उत्तमः' प्रधानः, उत्तमगुणान्वितत्वात्, 'भंते'त्ति पूज्याभिधानं प्रेत्य' परलोके भविष्यसि उत्तमः, कथमित्याह-लोकस्य-चतुर्दशरज्ज्वात्मकस्य 'उत्तमम्' उपरिवर्ति लोकोत्तमम् ‘उत्तम' देवलोकाद्यपेक्षया प्रधानम्, अथवा 'लोगोत्तममुत्तमंतिमकारोऽलाक्षणिकः, ततो लोकस्य लोके वा उत्तमोत्तमम्-अतिशयप्रधानं लोकोत्तमोत्तम, तिष्ठत्यस्मिन् नातः परं गच्छतीति स्थानं, किं तदित्याह-"सिद्धि' मुक्तिं 'गच्छति'त्ति सूत्रत्वाद्गमिष्यसि, निर्गतो रजसः-कर्मण इति नीरजा इति सूत्रार्थः ।। उपसंहारमाहमू.( २८७) एवं अभित्थुणंतो रायरिसिं उत्तमाए सद्धाए।
पायाहिणं करेंतो पुनो पुनो वंदती सक्को। वृ. 'एवम्' अमुनोक्तन्याये अभिष्टुवन् 'राजर्षिम्' उक्तरूपं, प्रक्रमानमिम्, 'उत्तमया' प्रधानया 'श्रद्धया' भक्त्या 'पायाहिण'न्ति प्रदक्षिणां 'कुर्वन्' विदधत् पुनः पुनः 'वन्दते' प्रणमति 'शक्रः' पुरन्दर इति सूत्रार्थः ।। अनन्तरं च यत् कृतवांस्तदाहमू. ( २८८) तो वंदिऊण पाए चक्कंकुसलक्खिए मुनिवरस्स।
आगासेणुप्पतिओ ललियचवलकुंडलतिरीडी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org