________________
उत्तराध्ययन- - मूलसूत्रम् - १-९ / २७२ न सो सुक्खायधम्मस्स, कलं अग्घइ सोलसिं ॥
वृ. 'मासे मासे' इति वीप्सायां द्विर्वचनं, 'तु:' इहोत्तरम् चैवकारार्थः, ततश्च मासे मास एव, न त्वेकस्मिन्नेव मासे ऽर्धमासादौ वेति, 'य: ' कश्चिद् 'बाल: ' अविवेक: 'कुशाग्रेणैव' तृणविशेषप्रान्तेन भुंक्ते, एतदुक्तं भवति यावत् कुशाग्रेऽवतिष्ठते तावदेवाभ्यवहरति नातो ऽधिकम्, अथवा कुशाग्रेणेति जातवेकवचनं, तृतीया तु ओदनेनासौ भुंक्त इत्यादिवत् साधकतमत्वेनाभ्यवह्रियमाणत्वेऽपि विवक्षितत्वात्, 'न' इति निषेधे 'स' इति यः कुशाग्रैर्भुक्ते स एवंविधकष्टानुष्ठाय्यपि सुष्ठु - शोभनः सर्वसावद्यविरतिरूपत्वादाडिति-अभिव्याप्त्या ख्यातःतीर्थकरादिभिः कथितः स्वाख्यातः तथाविधो धर्मो यस्य सोऽयं स्वाख्यातधर्मा तस्य, चारित्रिण इत्यर्थः, ‘कलां' भागम् ‘अर्घति' अर्हति, 'षोडशीं' षोडशपूरणामित्युक्तं भवति, किं पुनस्तुल्योऽधिको वा ?, षोडशांशसमोऽपि न भवति, ततो यदुक्तम्- 'यद्यद् घोरं तत्तद्धर्मार्थनाऽनुष्ठेयमनशनादिवदिति, अत्र घोरत्वादित्यनैकान्तिको हेतु:, घोरस्यापि स्वाख्यात धर्मस्यैव धर्मार्थिनाऽनुष्ठेयत्वाद्, अन्यस्य त्वात्मविघातादिवत्, अन्यथात्वात्, प्रयोगश्चात्र- यत् स्वाख्यातधर्मरूपं न भवति घोरमपि न तद्धर्मार्थिनाऽनुष्ठेयं, यथाऽऽत्मवधादिः तथा च गृहाश्रमः, तद्रूपत्वं चास्य सावद्यत्वाद्धिसावदित्यलं प्रसङ्गेन । शेषं प्राग्वदिति सुत्रार्थः ॥
*
I
एयमहं निसामित्ताο
२६४
मू. (२७३ )
वृ. 'एय' सूत्रं प्राग्वत् । नवरं यतिधर्मे दृढोऽयमिति निश्चित्य दुरन्तोऽयमभिष्वङ्ग इति तदभावं परीक्षितमपि पुनः परीक्षितुमिदमिन्द्र उवाच
मू. ( २७४ )
हिरन्नं सुवनं मणिमोत्तं, कंसं दूसं च वाहणं ।
कोसं च वड्डत्ता णं, तओ गच्छसि खत्तिया ! |
वृ. 'हिरण्यं' स्वर्णं 'सुवर्ण' शोभनवर्णं' विशिष्टवणिकमित्यर्थः यद्वा हिरण्यं - घटितस्वर्णमितरत्तु सुवर्ण, मणयश्च इन्द्रनीलादयो मुक्ताश्च मौक्तिकानि मणिमुक्तं, तथा ‘कांस्यभाजनादि ‘दूष्यं' वस्त्राणि, 'च: ' स्वगतानेकभेदसंसूचकः, 'वाहनं' रथाश्चादि, पठन्ति च- 'सवाहणं'ति सह वाहनैर्वर्त इति सवाहनं हिरण्यादीति सम्बन्धः, 'कोषं' भाण्डागारं 'चर्मलताद्यनेकवस्तुरूपं 'वड्ढावइत्ता णं' ति वृद्धि प्रापय्य ततः समस्तवस्तुविषयेच्छापरिपूर्तौ गच्छ क्षत्रिय !, अयमाशयः --य: साकाङ्क्षी नासौ धर्मानुष्ठानयोगो भवति, यथा मम्मणवणिक्, साकाङ्क्षश्च भगवान्, आकाङ्क्षणीयहिरण्यादिवस्त्वपरिपूर्ते:, तथाविधद्रमकवदिति । एयमद्वं निसामित्ता०
-
·
भू. (२७५)
वृ. तत: 'एयं' सूत्रं पाग्वत्
मू. (२७६ ) सुवन्न रूप्पस्स य पव्वया भवे, सिया हु केलाससमा अखंखया । नरस्स लुद्धस्स न तेहि किंति, इच्छा हु आगाससमा अनंतया ॥
वृ. सुवर्णं च रूप्यं च सुवर्णप्यमिति समाहारस्तस्य, 'तुः' पूरणे, यद्वाऽऽर्षत्वाद्विभक्तिलोपः, तुशब्दः समुच्चये, ततः स्वर्णस्य रूप्यस्य च पर्वता इव पर्वताः - पर्वताप्रमाणा: राशयो 'भवन्ति' भवेयुः, पर्वतप्रमाणत्वेऽपि च लघुपर्वतप्रमाणा एव स्युरत आह- 'सिया हु' त्ति स्यात्, कदाचित्, हुरवधारणे भिन्नक्रमश्च ततः 'कैलाससमा' एव कैलासपर्वततुल्या एव, न त्वन्यलघुपर्वत-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org