________________
अध्ययनं-९,[ नि. २७९ ] धर्मात् ‘संयमः' उक्तरूपः श्रेयान्, शेषं पूर्ववत्, गोदानं चेह यागाद्युपलक्षणम्, अतिप्रभूतजनाचरितमित्युपात्तम्, एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वमर्थादावेदितं, तथा च यज्ञप्रणेतृभिरुक्तम्
__ "पट शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि।
अश्वमेघस्य वचनान्यूनानि पशुभिस्त्रिभिः ॥" इयत्पशुवधे च कथमसावद्यता नाम?, तथा दानान्यप्यशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते, यत आह
"अशनादीनि दानानि, धर्मोपकरणानि च।
साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ।।" शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमर्दहेतुतया सावधान्येव, भोगानां तु सावद्यत्वं सुप्रसिद्धं । तथा च प्राणिप्रीतिकरत्वादित्यसिद्धो हेतुः, प्रयोगश्च-यत्सावा नतत् प्राणिप्रीतिकरं, यथा हिंसादि, सावधानि च यागादीनि इति सूत्रार्थः॥ मू. (२६९)
एयमटुंनिसामित्ता० वृ. 'एयमट्ठ' सूत्रं प्राग्वत् । नवरमित्थं जिनधर्मस्थैर्यमवधार्य प्रव्रज्यां प्रति दृढोऽयमुत नेति परीक्षणार्थं शक्र इदमवादीत्मू. ( २७०) घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं।
इहेव पोसहरओ, भवाहि मनुयाहिवा!। वृ. 'घोरः अत्यन्तदुरनुचरः, स चासावाश्रमश्च आङिति-स्वपरप्रयोजनाभिव्याप्त्या श्राम्यन्ति-खेदमनुभवन्त्यस्मिन्नितिकृत्वा घोराश्रमो-गार्हस्थ्यं, तस्यैवाल्पसत्त्वैर्दुष्करत्वात्,
"गृहाश्रमसमो धर्मो, न भूतो न भविष्यति।
पालयन्ति नराः शूरा क्लीबा: पाखण्डमाश्रिताः॥" तं 'त्यक्वा' अपहाय जहित्ता णं'ति क्वचित् पाठः, तत्र च हित्वा-'अन्यत्' एतद्वयतिरिक्तं कृषिपाशुपाल्यादि अशक्तकातरजनातिनिन्दितं 'प्रार्थयसे' अभिलषसि, 'आश्रमं प्रव्रज्यालक्षणं, नेदं क्लीबसत्वानुचरितं भवादृशानामुचितमित्यभिप्रायः । तर्हि किमुचितमित्याह'ईह' अस्मिन्नेव गृहाश्रमे, स्थित इति गम्यते, पोषं-धर्मपुष्टिं धत्तइति पोषधः-अष्टम्यादितिथिषु व्रतविशेषः, तत्र रतः-आसक्तः पोषधरतः 'भवाहि'त्ति भव, अणुव्रताधुपलक्षणमेतद्, अस्यैव चोपादानं पोषधदिनेष्ववश्यंभावतस्तपोऽनुष्ठानख्यापकं, यत आह आससेनः
"सर्वेष्वपि तपोयोगः, प्रशस्त: कालपर्वसु।
अष्टम्यां पञ्चदश्यां च, नियतं पोषधं वसेत् ।।" इति मनुजाधिप!' नृपते ! । अब च घोरपदेन हेतुराक्षिप्तः, तथाहि- यद्यद् घोरं तत्तद् धर्मार्थिनाऽनुष्ठेयं, यथाऽनशनादि, तथा चायं गृहाश्रमः, शेषमेतदनुसारतोऽभ्यूह्यमिति सूत्रार्थः ।। मू. (२७१)
एयमद्वंनिसामित्ता० ॥ वृ. 'एय' सूत्रं । प्राग्वत्मू. ( २७२) मासे मासे उ जो बालो, कुसग्गेणं तु भुंजइ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org