SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन-मूलसूत्रम्-१-९/२६३ शुभं-पुण्यमेधते-अन्तर्भावितण्यर्थत्वात् वृद्धि नयति । मू.( २६४) पंचिंदियाणि कोहं, मानं मायं तहेव लोहं च। दुजयं चेव अप्पाणं, सव्वमसे जिए जितं ।। वृ. कथमात्मन्येव जिते सुखावासिरित्याह-'पञ्चेन्द्रियाणि' श्रोत्रादीनि 'क्रोधः' कोपः 'मान:' अहङ्कारः 'माया' निकृति: तथैव 'लोभश्च' गार्द्धलक्षणः 'दुर्जयः' दुरभिभवः, 'चः' समुच्चये, 'एव' इति पूरणे, अतति-सततं गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः आत्मा-मनः, सर्वत्र च सूत्रत्वात् नपा निर्देशः, 'सर्वम्' अशेषमिन्द्रियादि, उपलक्षणत्वान्मिथ्यात्वादि च, 'आत्मनि' जीवे 'जिते' अभिभूते 'जित'मिति अभिभूतमेव । ननु मनसि जिते जितान्येवेन्द्रियादीनीति किं पृथक् तज्जयाभिधानेन?, सत्यं, तथापि प्रत्येकं दुर्जयत्वख्यापनाय पृथगृपन्यास इत्यदोषः, यद्वा-'दुज्जयं चेव अप्पाण'ति चकारो हेत्वर्थः, एवः' अवधारणे भिन्नकमश्च आत्मशब्दादनन्तरं द्रष्टव्यः, ततश्च-यस्माद् 'आत्मैव' जीव एव दुर्जयः ततः सर्वमिन्द्रियाद्यात्मनि जिते जितम्, अनेन चेन्द्रियादीनामेव दुःखहेतुत्वात्तज्जयतः सुखप्राप्ति: समर्थिता भवति। एवं च फलोपदर्शनद्वारेणैवंविधेव विजिगीषुता श्रेयसीत्याचष्टे, ततश्च यो नृपतिरित्याद्यपि तत्त्वतो विजीगीषुत्वदर्शनात् सिद्धसाधनतया प्रत्युक्तमिति सूत्रार्थः ।। मू.(२६५) एयमटुंनिसामित्ता०॥ वृ. भूयोऽपि-'एय' सूत्रं प्राग्वत् । नवरमनन्तरपरीक्षातो द्वेषोऽप्यनेन परिहत इति निश्चित्य जिनप्रणीतधर्म प्रति स्थैर्य परीक्षितुकामः शक्र इदमवोचत्मू.(२६६) जइत्ता विउले जन्ने, भोइत्ता समणमाहणे। दच्चा भोच्चा य जट्ठा य, ततो गच्छसि खत्तिया। वृ.'जइत्त'त्ति याजयित्वा 'विपुलान्' विस्तीर्णान् 'यज्ञान्' यागान् भोजयित्वा' अभ्यवहार्य श्रमणाश्च-निर्ग्रन्थादयो ब्राह्मणाश्च-द्विजाः श्रमणब्राह्मणास्तान, 'दत्त्वा' द्विजादिभ्यो गोभूमिसुवर्णादीन्, भुक्त्या च मनोज्ञशब्दादीन् इष्टवा च राजर्षित्वावाप्तौ स्वयं यागान् ततो गच्छ क्षत्रिय !, अनेन यद्यत्प्राणिप्रीतिकरं तत्तद्धर्माय, यथा हिंसोपरमादि, प्राणिप्रीतिकराणि चामूनि यादादीनीत्यादिहेतुकारणे सूचिते एवेति सूत्रार्थः ।। मू.(२६७) एयमटुंनिसामित्ता०॥ वृ. शक्रवचनानन्तरम् 'एय' सूत्रं प्राग्वत्! मू.(२६८) जो सहस्सं सहस्साणं मासे मासे गवं दए। तस्सावि संजमो सेओ, अदितस्सवि किंचनं ।। वृ. यः 'सहस्रं सहस्राणां' दशलक्षात्मकं मासे मासे 'गवां' प्रतीतानां 'दए'त्ति दद्यात्, 'तस्यापि' एवं विधस्य दातुर्यादि कथञ्चिच्चारित्रमोहनीयक्षयोपशमेन 'संयमः' आश्रवादिविरमणात्मक: स्यात् तदास एव' श्रेयान्' अतिशयप्रशस्यः; कथंभूतस्यापि?- 'अददतोऽपि' अयच्छतोऽपि 'किञ्चन' स्वल्पमपि वस्तु, यद्वा तस्सावित्ति तस्मादप्युक्तरूपाद्दातुरवधित्वेन विवक्षितात्, संयच्छति-प्राणिहिंसादिभ्यः सम्यगुपरमतीति सर्वधातूनां पचादिषु दर्शनादिति संयमः-संयमवान्, साधुरित्यर्थः, श्रेयान्' प्रशस्यतरः, अथवा तस्यापि दातुः प्रक्रमात् गोदान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy