________________
अध्ययनं-९,[नि. २७९]
२६१ विधायिनः ‘अत्र' इत्यस्मिन् प्रत्यक्षत उपलभ्यमाने मनुष्यलोके 'वध्यन्ते' निगडादिभिनियन्त्र्यन्ते 'मुच्यते' त्यज्यते 'कारक;' विधायकः, प्रकृतत्वादामोषणादीनां, 'जनः' लोकः, तदनेन यदुक्तं प्राग-'आमोषकाद्युत्सादनेन नगरस्य क्षेमं कृत्वा गच्छति, तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणस्याप्यशक्यत्वमुक्तंयत्तु यः सधर्मेत्यादि' सूचितं, तत्रापरिज्ञानतोऽनपराधिनामपि दण्डमादधतां सधर्मनृपतित्वमपि तावच्चिन्त्यमित्यसिद्धता हेतोरिति सूत्रार्थः ।। . मू.( २५९)
एयमटुं निसामित्ता०॥ वृ. 'एय' सूत्रं प्राग्वत्, नवरमियता स्वजनान्तःपुरपुरादिप्रासादनृपतिधर्मविषय: किमस्याभिप्वङ्गोऽस्ति ? नेती वेति विमृश्य सम्प्रति उपाभावं विवेक्तुमिच्छविजिगीषुतामूलत्वात् द्वपस्य तामेव परीक्षितुकामः शक्र इदमुक्तवान्मू.(२६०) जे केइ पत्थिवा तुब्भं, नानमंति नराहिवा।
वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिया! 11 वृ.ये केचित् इति सामस्त्योपदर्शकं 'पार्थिवाः' भूपालाः, 'तुब्भं ति तुभ्यं नानमन्ति' न मर्यादया प्रह्वीभवन्ति, तुभ्यमिति च नमतियोगेऽपि चतुर्थीदर्शनात्, ‘मात्रे पित्रे च सवित्रे च नमामी' त्यादिवददुष्टमेव, पठ्यते च-'तुम्भंति, तत्र च तवेति शेषविवक्षया षष्ठी, 'नराहिवा' इत्यत्र अकारो 'ह्रस्वदीर्घा मिथ' इतिलक्षणात्, ततश्च हे 'नराधिप!' नृपते! 'वशे' इत्यात्मायत्तौ 'तानि'ति अनानमत्यार्थिवान् 'स्थापयित्वा' निवेश्य कृत्वेतियावत्, ततो गच्छ क्षत्रिय! इहापि यो नृपतिः सोऽनमत्पार्थिवनमयिता. यथा भरतादिः, इत्यादिहेतुकारणे अर्थतः आक्षिप्ते इति । मू. ( २६१)
एयमटुंनिसामित्ता०॥ वृ. एवं तु सुरपतिनोक्ते एय' सूत्रं प्राग्वत्मू. ( २६२) जो सहस्सं सहस्साणं, संगामे दुज्जए जिने।
एग जिनेज्ज अप्पाणं, एस से परमो जओ। वृ. 'य' इत्यनुद्दिष्टनिर्देशे 'सहस्रं' दशशतात्मकं सहस्राणां प्रक्रमात् सुभटसम्बन्धिनां 'संग्रामे' युद्धे 'दुर्जये' दुरापपरपरिभवे 'जयेद्' 'अभिभवेत्, सम्भावने लिट्, 'एकम्' अद्वितीयं 'जयेद्' यदि कथञ्चिज्जीववीर्योल्लासतोऽभिभवेत्, कम्? -'आत्मानं' स्वं, दुराचारप्रवृत्तमिति गम्यते, 'एषः' अनन्तरोक्तः, 'से' इति तस्य जेतुः सुभटदशशतसहस्रजयात् 'परमः' प्रकृष्टः 'जयः' परेषामभिभवः, तदनेनाऽऽत्मन एवातिदुर्जयत्वमुक्तं, मू. (२६३) अप्पाणमेव जुज्झाहि, किं ते जुझेण बज्झओ? |
अप्पाणमेव अप्पाणं, जिणित्ता सुहमेहति ॥ वृ.तथा च-'अप्पाणमेव'-त्ति तृतीयार्थे द्वितीया, ततश्चाऽऽत्मनैव सह 'युध्यस्व' संग्राम कुरु, यद्वा युद्धेरन्तर्भावितण्यर्थत्वात् युध्यस्वेति योधयस्व, कम्?-आत्मानं, इहाप्यात्मनैव सहेति शेषः, किं?, न किञ्चिदित्यर्थः, 'ते' तव 'युद्धेन' संग्रामेण, बाह्यत' इति बाह्यं पार्थिवादिकमाश्रित्य, यदिवा बाह्यत इति तृतीयार्थे तसिः, ततो बाह्येन युद्धेनेति सम्बध्यते, एवं च 'अप्पाणमेव त्ति आत्मनैवान्यव्यतिरिक्तेनाऽऽत्मानं स्वं'जइत्त'ति जित्वा 'सुखम्' ऐकान्तिकात्यन्तिकमुक्तिसुखात्मक् 'एधते' इत्यनेकार्थत्वाद्धातूनां प्राप्नोति, अथवा 'सुहमेहए'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org