________________
अध्ययनं - ९, [ नि. २७९ ]
प्रमाणाः, तेऽपि 'असङ्ख्यकाः ' सङ्ख्याविरहिताः, न तु द्वित्रा एव,
मू. ( २७७)
पुढवी साली जवा चेव, हिरनं पसुभिस्सह । पडिपुत्रं नालमेगस्स, इह विज्जा तवं चरे ॥
वृ. नरस्य लुब्धस्य, उपलक्षणत्वात्, स्त्रियाः पण्डकस्य वा, न तैः कैलाशसमैरपि सुवर्णरूप्यपर्वतैः ‘किञ्चिदपि' अल्पमपि परितोपोत्पादनं प्रति क्रियत इति शेषः, पठ्यते च'न तेणं' ति अत्र च सूत्रत्वाद्वचनव्यत्ययः, कुतः पुनरिदमित्याह- 'इच्छा' अभिलाष: 'हु' रिति यस्मादाकाशेन समा-तुल्या आकाशसमा 'अनन्तिका' अन्तरहिता, तथा चैतदनुवादी वाचक:"न तुष्टिरिह शताज्जन्तोर्न सहस्रान कोटितः । न राज्यान्नेव देवत्वारैन्द्रत्वादपि विद्यते ॥"
किं सुवर्णरूप्ये केवलं एव नेच्छापरिपूर्तये इत्याशङ्कयाह-'पृथ्वी' मही 'शालयः' लोहितशाल्यादयः, ‘यवा:' प्रतीताः, 'च: ' शेषधान्यसमुच्चायार्थ:, 'एव: ' अवधारणे स च भिन्नक्रमो नेत्यस्यानन्तरं योक्ष्यते, 'हिरण्यं' सुवर्ण ताम्राद्युपलक्षणमेतत्, 'पशुभिः ' गवाश्वादिभिः 'सह' सार्धं 'प्रतिपूर्ण' समस्तं पठन्ति च - 'सव्वं तं 'ति सर्वम्-अशेषं न तु कियदेव तत् पृथिव्यादि 'न' इत् नैव 'जलं' समर्थं, प्रक्रमादिच्छापरिपूर्तये 'एकस्य' अद्वितीयस्य जन्तोरिति गम्यते, 'इति' एतत् श्लोकद्वयोक्तं 'विज्ज' त्ति सूत्रत्वाद् विदित्वा यद्वा 'इती' त्यस्माद्धेतोः 'विद्वान्' पण्डित: 'तपः' द्वादशविधं 'चरेत्' आसेवेत, तत एव निःस्पृहतयेच्छापरिपूर्तिसम्भवादितिभावः । अनेन च सन्तोष एव निराकाङ्क्षतायां हेतु:, न तु हिरण्यादिवर्धनमित्युक्तं, तथा च हिरण्यादि वर्धयित्वेत्यत्र यदनुमानमुक्तं, तत्र साकाङ्क्षत्वलक्षणों हेतुरसिद्धः, न चाकाङ्क्षणीयवस्त्वपरिपूर्तस्तस्य सिद्धत्वं, सन्तुष्टतया ममाऽऽकाङ्क्षीयवस्तुन एवाभावादिति सूत्रार्थः ॥ एयमहं निसामित्ता
२६५
Jain Education International
1
मू. (२७८)
वृ. भूयोऽपि 'एयं' सूत्रं प्राग्वत् । नवरमविद्यमानविपयेषु विषयवाञ्छानिवृत्तोऽयमिति निश्चित्य सत्सु तेष्वभिष्वङ्गोऽस्ति उत न वेति विवेचयितुमिन्द्र उवाचअच्छेरगमब्भुदए, भोए जहित्तु पत्थिवा ! ।
मू. ( २७९ )
असंते कामे पत्थेसि, संकप्पेण विहम्मसि ॥
वृ. ‘अच्छेरगं’ति आश्चर्यं वर्तते, यत् त्वमेवंविधोऽपि 'अब्भुदए 'त्ति अद्भुतकान् आश्चर्यरूपान् 'भोगान्' कामान् 'जहासि' त्यजसि, पठ्यते च-' -'चयसि 'त्ति, 'पार्थिव !' पृथिवीपते !, पाठान्तरतश्च क्षत्रिय !, अथवा 'अब्भुयए' त्ति अभ्युदये, ततश्च यदभ्युदयेऽपि भोगांस्त्वं जहासि तदाश्चर्यं वर्तते, तथा तत्त्यागतश्च 'असतः' अविद्यमानान् कामान् 'प्रार्थयसे' अभिलपसि यत्तदप्याश्चर्यमिति सम्बन्धः, अथवाऽधिकस्तवात्र दोष:, 'सङ्कल्पेन' उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे' विविधं बाध्यसे, एवंविधसङ्कल्पस्यापर्यवसितत्वाद्, उक्तं हि"अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृसिं, विशेषाणामुपागताः ॥"
यद्वा 'अच्छेरगमब्भुदए'त्ति मकारोऽलाक्षणिकः, ततश्च - आश्चर्याद्भुतयोरेकार्थत्वेऽप्युपादानमतिशयख्यापनार्थम् अतिशयाद्भुतान् भोगान् जहासि पार्थिव ! असतश्च कामान्
For Private & Personal Use Only
www.jainelibrary.org
--