SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५५ अध्ययनं-९,[नि. २७९] स्थामाश्रित्य ऋपिश्च तत्कालापेक्षया राजर्षिः, यदिवा राज्यावस्थायामपि ऋषिरिव ऋषिःक्रोधादिपड्वर्गजयात्, तथा च राजनीतिः "कामः क्रोधस्तथा लोभो, हर्षो मानो मदस्तथा। __षड्वर्गमुत्सृजेदेनं, तस्मिस्त्यक्ते सुखी नृपः ॥" तस्मिन् 'नमौ' नमिनाम्नि, 'अभिनिष्क्रामति' गृहात् कपायादिभ्यो वा निर्गच्छतीति मू.( २३४) अन्भुद्वियं रायरिसिं, पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेणं, इमं वयणमब्बवी। वृ. 'अभ्युत्थितम्' अभ्युद्यतं 'राजर्षि' प्राग्वत् प्रव्रज्यैव स्थानं तिष्ठिन्ति सम्यग्दर्शनादयो गुणा अस्मिन्नितिकृत्वा प्रव्रज्यास्थानं, प्रतीति शेषः, 'उत्तमं' प्रधानं, सुब्ब्यत्ययेन सप्तम्यर्थे वाद्वितीया, तत: प्रव्रज्यास्थान उत्तमे 'अभ्युपगतं' तद्विपयोद्यमवन्तं शक्रः' इन्द्रो 'माहनरूपेण' ब्राह्मणवेषेण, आगत्येति शेषः, तदा हि तस्मिन् महात्मनि प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकाम: स्वयमिन्द्र आजगाम, तत: स 'इदं' वक्ष्यमाणम्, उच्यत इति वचनं-वाक्यम् 'अब्रवीत्' उक्तवानिति सूत्रार्थः ।। यदुक्तवांस्तदाहमू. ( २३५) किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला। सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु अ? || वृ. 'किम्' इति परिप्रश्ने 'नु' इति वितर्के 'भो' इत्यामन्त्रणे अद्य' एतस्मिन् दिने 'मिथिलायां' नगर्यां कोलाहलकेन-बहलकलकलात्मकेन सङ्कला:-व्याकुला: कोलाहलकलसंकुलाः श्रूयन्ते' इत्याकर्ण्यन्ते 'शब्दा' ध्वनय इति सम्बन्धः, ते च कदाचिद्वन्दिवृन्दोदीरिता अपि स्युः तनिराकरणायाह-दारयन्ति जनमनांसीति दारुणाः-विलपिताऽऽक्रन्दितादयः, क्व पुनस्ते ? -'प्रासादेषु' सप्तभूमादिषु 'गृहेषु' सामान्यवेश्मसु, यद्वा 'प्रासादो देवतानरेन्द्राणा'मितिवचनात् प्रासादेषु देवतानरेन्द्रसम्बन्धिष्वास्पदेषु गृहेषु' तदितरेषु चशब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ।। ततश्चमू.( २३६) एयमटुंनिसामित्ता, हेउकारणचोइओ। ततो नमी रायरिसी, देविंदं इणमब्बीवी।। वृ. 'एनम्' अनन्तरोक्तम् 'अर्थ' इत्युपचारादर्थाभिधायिनं ध्वनि 'निशम्य' आकर्ण्य हिनोति-गमयति विवक्षितमर्थमिति हेतुः, सच पञ्चावयववाक्यरूपः, कारणं च-अन्यथाऽ-- नुपपत्तिमात्रं ताभ्यां चोदित:-प्रेरितः हेतुकारणचोदितः, कोलाहलकसङ्कला: दारुणाः शब्दां श्रूयन्त इत्यनेन हि उभयमेतत् सूचितं, तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा, आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः, प्राणव्यपरोपणादिवदिति दृष्टान्तः, यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनोऽनुचितं, यथा प्राणव्यपरोपणादि, तथा चेदं भवतोऽभिनिष्क्रमणमित्युपनयः, तस्मादाक्रन्दादिदारुणशब्दादिहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति पञ्चावयवंवाक्यमिह हेतु:, शेषावयवविवक्षाविरहितं त्वाक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनाऽनुपपत्र मिति एतावन्मानं कारणम्, अनयोस्तु, पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थं, तथा चाह श्रुतकेवली For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy