________________
२५६
उत्तराध्ययन-मूलसूत्रम्-१-९/२३६ "कत्थवि पंचावयवं दसहा वा सव्वहा न पडिसिद्धं ।
न य पुण सव्वं भन्नइ हंदी सवियारमक्खायं ॥" (तथा)"जिनवयणं सिद्धं चेव भन्नती कत्थती उदाहरणं।
___ आसज्ज उ सोयारं हेऊवि कहिचि वोत्तव्यो।।" अथवाऽन्वयव्यतिरेकलक्षणो हेतुः, उपपत्तिमात्रं तु दृष्टान्तादिरहितं कारणं, यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, अन्यत्र हि निरुपमसुखासम्भवात् नोदाहरणमस्ति, दृष्टान्तश्च प्रकृष्टमत्यादिज्ञानानाबाधा: परमसुखिनो मुनय इति ज्ञानानाबाधप्रकर्षः निरुपमसुखत्वे हेतुरुच्यते,
"हेतू अनुगमवइरेगलक्खणो सज्झवत्थुपज्जातो।
आहरणं दिटुंतो कारणमुववत्तिमेत्तं त् ।।" इह हि आक्रमन्दादिदारुशब्दहेतुत्वमेव हेतुः, तस्योक्तन्यायेनान्वयान्वितत्वात्, सति चान्वये व्यतिरेकस्यापि सम्भवात्, इदमेव चान्वयव्यतिरेकविकलतया विवक्षितमुपपत्तिमात्र कारणम्, एवं सर्वत्र कारणभावना कार्येत्यलं प्रसङ्गेन, प्रकृतमेव सूत्रमनुत्रियते, 'ततः' प्रेरणाऽनन्तरं 'नमिः' नमिनामा राजर्षिः 'देवेन्द्र' शक्रम् 'इदं' वक्ष्यमाणम् 'अब्रवीत् उक्तवानिति सूत्रार्थः ।। मू. ( २३७) मिहिलाए चेइए वच्छे, सीतच्छाए मनोरमे।
पत्तपुप्फफलोवेते, बहूणं बहुगुणे सता॥ वृ.'मिथिलायां' पुरि चयनं चिति:-इह प्रस्तावात् पत्रपुष्पाद्युपचयः, तत्र साधुरित्यन्ततः प्रज्ञादेराकृतिगणत्वात् स्वार्थिकेऽणि चैत्यम्-उद्यानं तस्मिन्, 'वच्छे'त्ति सूत्रत्वाद्धिशब्दलोपे वृक्षैः शीता-शीतला छाया यस्य तच्छीतच्छायं तस्मिन्, मन:-चित्तं रमते- धृतिमाप्नोति यस्मिन् तन्मनोरम-मनोरमाभिधानं तस्मिन्, पत्रपुष्पफलानि प्रतीतानि तैरुपेतं-युक्तं पत्रपुष्पफलोपेतं तस्मिन्, 'बहूनां' प्रक्रमात् खगादीनां, बहवो गुणा यस्मात्तत् तथा तस्मिन्, कोऽर्थः ?फलादिभिः प्रचुरोपकारकारिणि 'सदा' सर्वकालमिति सूत्रार्थः । तत्र किमित्याहमू. (२३८) वारण हीरमाणमि, चेइयमि मनोरमे।
दुहिया असरणा अत्ता, एए. कंदंति भो! खगा। वृ. 'वातेन' वायुना 'हियमाणे' इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्प्रदाय:, चितिरिहेष्टकादिचयः, तत्र साधु:-योग्यश्चित्यः प्राग्वत् स एव चैत्यस्तस्मिन्, किमुक्तं भवति?- अधोबद्धपीठिके उपरि चोच्छ्रितपताके 'मनोरमे' मनोऽभिरतिहेतौ, वृक्ष इति शेषः, दुःखं सञ्जातं येषां ते दुःखिताः 'अशरणाः' त्राणरहिता अत एव 'आर्ताः' पीडिताः 'एते' प्रत्यक्षाः ‘क्रदन्ति' आक्रन्दशब्दं कुर्वन्ति भो' इत्यामन्त्रणे 'खगाः' पक्षिणः।
इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत्स्वजनजनाक्रन्दनमुक्तं तत् खगक्रन्दनप्रायम्, आत्मा च वृक्षकल्पः, तत्त्वतो हि नियतकालमेव सहावस्थितत्वेन उत्तरकालं च स्वस्वगतिगामितया द्रुमाश्रितस्वगोपया एवामि स्वजनादयः, उक्तं हि
"यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं हि निशि यान्ति पुनः प्रभाते ।
तद्वज्जगत्यसकृदेव कुटुम्बाजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ।।" इति, ततश्चाऽऽक्रन्दादिदारुणशब्दहेतुत्वं हेतुत्वेनाभिधीयमानमसिद्धम्, एते हि स्वजनादयो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org