________________
२५४
उत्तराध्ययन-मूलसूत्रम्-१-९/२३० 'धर्मे' चारित्रधर्मे 'पुत्र' सुतं 'स्थापयित्वा' निवेश्य, क्व?-राज्ये 'अभिनिष्क्रामति' धर्माभिमुख्येन गृहस्थपर्यायान्निर्गच्छति, स्मेतीहापि शेषः, ततश्च प्रज्जित्वानित्यर्थः, प्राग्वत् तिव्यत्ययेन वा व्याख्येयं, 'नमिः' नमिनामा राजा पृथिवीपतिरिति सूत्रार्थः ।। स्यादेतत्, कुत्रावस्थितः? कीदृशान् वा भोगान् भुक्त्वा सम्बुद्धः? किं वाऽभिनिष्क्रामन् करोतीत्याहमू. ( २६१) सो देवलोगसरिसे अंतेउरवरगतो वरे भोए।
भुंजित्तु नमी राया बुद्धो भोगे परिच्चयइ ।। वृ. 'सः' इत्यनन्तरमुद्दिष्टः 'देवलोगसरिसे'त्ति देवलोकभोगैः सदृशा देवलोकसदृशाः, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, 'अंतेउपवरगतो'त्ति वरं-प्रधानं तच्च तदन्तःपुरं चवरान्तःपुरंतत्र गत:-स्थितो वरान्तःपुरगतः, प्राकृतत्वाच्च वरशब्दस्य परनिपातः, वरान्तःपुरं हि रागहेतुरिति तद्गतस्य तस्य भोगपरित्यागाभिधानेन जीववीर्योल्लासातिरेक उक्तः, तत्रापि कदाचिद्वराः शब्दादयो न स्युः तत्सम्भवे वा सुबन्धुरिव कुतश्चित्रिमित्तान भुञ्जीतापीत्याह'वरान्' प्रधानान् 'भोगान्' मनोज्ञशब्दादीन् 'भुक्त्वा' आसेव्य नमिः' नमिनामराजा 'बुद्धः' विज्ञाततत्त्वः भोगान' उक्तरूपान् परित्यजति, स्मेति शेषः । इह पुनर्भोगग्रहणमतिविस्मरणशीला अप्यनुग्राह्या एवेति ज्ञापनार्थमिति सूत्रार्थः। किं भोगानेव त्यक्त्वाऽभिनिक्रान्तवान् ? मू.( २३२) मिहिलं सपुरजनवयं बलमोरोहं च परियणं सव्वं ।
चेच्चा अभिनिक्खंतो एगंतमहिडिओ भयवं ।। वृ. 'मिथिलां' मिथिलानाम्नी नगरी, सहपूरै:-अन्यनगरैर्जनपदेन च वर्तते या सा तथोक्ता तां न त्वेकामेव, 'बलं' हस्त्यश्वादि चतुरङ्गम् 'अवरोधं च अन्तःपुरं परिजनं' परिवर्ग 'सर्व' निरवशेषं, न तु तथाविधप्रतिबन्धानास्पदं किञ्चिदेव 'त्यक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रवजितः, 'एगंत'त्ति एक:-अद्वितीयः कर्मणामन्तो यस्मिन्निति, मयूरव्यंसकादित्वात् समासः, तत एकान्तो-मोक्षस्तम् 'अधिष्ठितः' इव आश्रितवानिवाधिष्ठित:, तदुपायसम्यग्दर्शनाद्यासेवनादधिष्ठित एव वा, इहैव जीवन्मुक्त्यवाप्तेः, यद्वैकान्तं-द्रव्यतो विजनमुद्यानादि भावतश्च सदा
__ "एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित्।
नतं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम ।।" इति भावनात एक एवाहमित्यन्तो-निश्चय एकान्तः, प्राग्वत् समासः, तमधिष्ठितः, भगवान्' इति धैर्यवान् श्रुतवान् वेति सूत्रार्थः । तत्रैवमभिनिष्क्रामति यदभूत्तदाह-यदिवा यदुक्तं 'सर्वं परित्यज्याभिनिष्क्रान्त' इति, तत्र कीहक् तत् त्यज्यमानमासीदित्याहमू. (२३३) कोलाहलगब्भूतं आसी मिहिलाए पव्वयंतमि।
तइया रायरिसिम्मि नमिम्मि अभिनिक्खमंतमि। वृ. कोलाहल:-विलपिताऽऽक्रन्दितादिकलकलः कोलाहल एव कोलाहलक: स भूत इति-जातो यस्मिंस्तत् कोलाहलकभूतम् आहितादेराकृतिगणत्वानिष्ठान्तस्य परनिपातः, यदिवा भूतशब्द उपमार्थः, ततः-कोलाहलकभूतमिति कोलाहलकरूपतामिवापन्नं हा तात ! मातरित्यादिकलकलाकुलिततया 'आसीत्' अभूत् मिथिलायां, सर्वं गृहविहारारामादीति प्रक्रमः, क्व सति?- 'प्रव्रजति' प्रव्रज्यामाददाने 'तदा' तस्मिन् काले, राजा चासौ राज्याव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org