SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ९, [ नि. २७९ ] २५३ पुष्पाणि कुसुमानि तैचित्र:- कुर्बुर: मञ्जरीपल्लवपुण्पचित्रस्तं यद्वा सहमञ्जरी पल्लवपुष्पैर्वर्तते यः स तथा चित्र-आश्चर्यो ऽनयोर्विशेषणसमासः, 'समिक्ख'त्ति आर्षत्वात् समीक्षते पर्यालोचयति, अनेकार्थत्वादङ्गीकुरुते वा, वर्तमाननिर्देशः प्राग्वत्, यद्वा 'समिक्ख 'ति समैक्षिष्ट समीक्षितवान् 'धर्म' यतिधर्म । यदा 'ते' त्वया 'पैतृके' पितुरागते राज्ये कृता-विहिता: कृत्यानि कुर्वन्ति - अनुतिष्ठन्ति कृत्यकरा - नियोगिनो बहवः - प्रभूताः, तदैव कृत्यकरत्वं स्वयं तव कर्तुमुचितमासीदित्युपस्कारः, 'तेषामि' ति कृत्यकराणां कृत्यं परापराधपरिभावनादि कर्तव्यं 'परित्यज्य' व्रताङ्गीकारादपहाय अद्य 'कृत्यकरो' नियुक्तक:- अन्यदोषचिन्तको 'भवान्' त्वं किमिति जात इति शेषः । तथा 'मोक्खाय घडसी 'ति प्राकृतत्वान्मोक्षाय-मोक्षार्थं 'घटते' चेष्टते, तथा 'अत्तणिस्सेसकारए' त्ति आत्मनो निःशेषमिति शेषाभावं प्रक्रमात् कर्मणः करोतिविधत्त इत्यात्मनिः शेषकारकः, यद्वा 'निस्सेस'त्ति निःश्रेयसो मोक्षस्तत्कारको । -- 'मोक्षमार्ग मुक्त्यध्यानं 'प्रतिपन्नेषु' अङ्गीकृतवत्सु साधुषु ब्रह्मचारिषु 'अहियत्थं 'ति अहितार्थं ‘निवारयन्' निषेधयन् 'न दोषं' परापवादलक्षणमस्येति शेषः, 'वक्तुम्' अभिधातुमर्हसि यथा हि भवान् अहितान्निवारयन्, कथं गर्हसीत्यादि, एवं नमिरपि अद्य कृत्यकरो भवानिति कृत्यकरत्वलक्षणादहितान्निवारयति, तथा दुर्मुखोऽपि सञ्चयं किं करोषि ? इति सञ्चयत एवाहितान्निषेधयतीति नायं परापवाद इति वक्तुमुचितं, यद्वा-'अहियत्यं निवारितो 'त्ति सुब्व्यत्ययादहितार्थान्निवारयन्तं न 'दोष' मिति मतुब्लोपान दोषवन्तं वक्तुमर्हसि तथा चार्षम्"रूसऊ वा परो ना वा, विसं वा परियत्तड । भासियव्वा हिया भासा, सुपक्खगुणकारिया !!" इत्यवसितो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्नस्थावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम् मू. (२२९) चइऊण देवलोगाओ उववन्नो मानुसंमि लोगंमि । उवसंतमोहनिज्जो सरती पोराणियं जाई ॥ वृ. च्युत्त्वा 'देवलोकात्' प्रतीतात्, 'उत्पन्नः' जातः 'मानुषे' मानुपसम्बन्धिनि 'लोके' प्राणिगणे उपशान्तम्- अनुदयं प्राप्तं मोहनीयं - दर्शनमोहनीयं यस्यासावुपशान्तमोहनीयः 'स्मरति ' चिन्तयति, स्मेति शेषः, वर्तमाननिर्देशो वा प्राग्वत्, कामित्याह - 'पोराणियं' ति पुराणामेव पौराणिकी, विनयादित्वात् ठक्, चिरन्तनीमित्यर्थः, 'जातिम्' उत्पत्ति, देवलोकादाविति प्रक्रमः, तद्गतसकलचेष्टोपलक्षणं चेह जातिरिति सूत्रार्थः । ततः किमित्याह पू. ( २३० ) जाई सरितु भयवं सहसंबुद्धो अनुत्तरे धम्मे । पुत्तं ठवित्तु रज्जे अभिनिक्खमति नमी राया || वृ. 'जातिम्' उक्तरूपां स्मृत्वा, भगशब्दो यद्यपि धैर्यादिष्वनेकेषु अर्थेषु वर्तते, यदुक्तं'धैर्यसौभाग्यमाहात्म्ययशोऽर्क श्रुतधीश्रियः । तपोऽर्थोपस्थपुण्येशप्रयत्नतनवो भगाः ॥ इति, तथापीह प्रस्तावाद्बुद्धिवचन एव गृह्यते, ततो भगो-बुद्धिर्यस्यास्तीति भगवान्, सहति - स्वयमात्मनैव सम्बुद्ध:-सम्यगवगततत्त्वः सहसम्बुद्धो, नान्येन प्रतिबोधित इत्यर्थः, अथवा 'सहस'त्ति आर्षत्वात् सहसा - जातिस्मृत्यनन्तरं झगित्येव बुद्ध:, क्वेत्याह- 'अनुत्तरे' प्रधाने Jain Education International For Private & Personal Use Only "" www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy