________________
२४८
उत्तराध्ययन-मूलसूत्रम्-१-८/२२८ भिधानं, 'तुः' पूरणे, ततो विशेषत एव तरिष्यन्ति, ये 'करिष्यन्ति' अनुष्ठास्यन्ति, प्रक्रमादमुं धर्मम्, अन्यच्च 'तैः' आराधितौ' सफलीकृतौ 'द्वौ' द्विसङ्ख्यौ लोको, इहलोकपरलोकावित्यर्थः, इह महाजनपूज्यतया परत्र च निःश्रेयसाभ्युदयप्राप्त्येति सूत्रार्थः ।। 'इति:' परिसमाप्तौ ब्रवीमि इति नयाश्च प्राग्वदिति ।।
अध्ययन-८ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तरध्ययन सूत्रे अष्टमम् अध्ययनं सनियुक्तिः सटीकं समाप्तम्
अध्ययनं-९ नभिप्रवज्या) वृ. उक्तमष्टममध्ययनं, साम्प्रतं नवममारभ्यते-अस्य चायमभिसम्बन्धः-अनन्तराध्ययने निर्लोभत्वमुक्तम्, इह तु तदनुष्ठितेः इहैव देवेन्द्रादिपूजोपजायत इति दर्शाते. इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयवर्णनं पूर्ववद्यावन्नामनिष्पनानिक्षेपेऽन्वर्थानुगतं नमिप्रव्रज्येतिनाम, अतो नमेः प्रव्रज्यायाश्च निक्षेपो वाच्य इत्यभयनिक्षेपाभिधानायाह
नि. [२६०] निक्खेवो उ नर्मिमि चउव्विहो दु०॥ नि. [ २६१]
जाणग शरीरे मविए०॥ नि. [ २६२] नमिआउनामगोय वेयंतो भावतो नमी होइ।
तस्स य खलु पव्वज्जा नमिपव्वज्जति अज्झयणं ।। नि. [ २६३] पव्वजानिक्खेवो चउव्विहो अन्नतित्थिगा दव्वे।
___ भावंमि उ पव्वज्जा आरंभपरिग्गहच्चाओ। वृ. 'निक्षेपः' न्यासः, 'तुः' पूरणे, 'नमौ' नमिविषय: 'चतुर्विधः' चतुर्भेदो नामादिः, तत्र च नामस्थापने सुगमै, द्विविधः द्विभेदो भवति 'द्रव्ये' द्रव्यविषयः, तमेवाह-आगमनो-आगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तः, नोआगमतश्च स 'त्रिविधः' त्रिभेदः, 'जाणगसरीरभविए तव्वइरित्ते य'त्ति नमिशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञशरीरनमिर्भव्यशरीरनमिस्तद्व्यतिरिक्तनमिश्च, 'स' तद्व्यतिरिक्तनमिर्भवेत् त्रिविधः-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, एतत्स्वरूपं च प्राग्वत्, तथा नम्यायुर्नामगोत्रं वेदयन् भावतो नमिर्भवति, 'तस्य' मेः 'खलु' इति वाक्यालङ्कारे, 'प्रव्रज्या' वक्ष्यमाणस्वरूपा, इहाभिधीयत इत्युपस्कारः, अतश्च 'नमिप्रव्रज्ये'ति नमप्रव्रज्याख्यमिदमध्ययनमेव प्रस्तुतमुच्यत इति शेषः, __ प्रव्रज्यानिक्षेपश्चतुर्विधो नामादिः, नामस्थापने प्राग्वत्, अन्यानि च तान्यनहत्प्रणीततीर्थादन्यत्वेन तीर्थानि च-निजनिजाभिप्रायेणभवजलधेः तरणं प्रति करणतया विकल्पितत्वेनान्यतीर्थानि तेषु भवा अन्यतीर्थिकाः, अध्यात्मादेराकृतिगणत्वाट्ठक्, ते च शाक्यसरजस्कादयः, 'द्रव्ये' विचार्ये, प्रव्रज्येति सम्बन्धः, प्रव्रज्यायोगाच्च त एव प्रव्रज्येत्युच्यते, यथा दण्डयोगात् पुरुषोऽपिदण्ड इति, इह चान्यतीर्थिकशब्देन विवक्षितभावविकलतैव सूचिता, ततोऽन्यतीर्थ्याः स्वतीर्थ्या वा प्रव्रज्यापर्यायशून्या द्रव्यप्रव्रज्येति भण्यन्ते,
अत एवाह-भावे तु विचार्यमाने प्रव्रज्या आरम्भश्च-पृथिव्याधुपमर्दः परिग्रहश्च-मूर्ख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org