________________
अध्ययनं-८,[ नि. २५९]
२४७ जाओ पुरिसं पलोभित्ता खेलंति जहा व दासेहिं।। वृ. 'नो' नैव राक्षस्य इव राक्षस्य:-इव राक्षस्य:-स्त्रिय: तासु, यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति एवमेता अपि, तत्त्वतो हि ज्ञानादीन्येव जीवितं च अर्थश्च (सर्वस्वं) तानि च ताभिरपहियन्त एव, तथा च हारिल:--
"घातोद्धृतो दहति हुतभुग्देहमेकं नराणा, मत्तो नाग: कुपितभुजगश्चैकदेहं तथैव । ज्ञानं शीलं विनयविभवौधार्यविज्ञानदेहान, सर्वानर्थान् दहति वनिताऽऽमुष्मिकानैहिकांश्च ।।" ___ 'गिज्झेज्ज'त्ति गृह्ययेद्-अभिकाङ्क्षावान् भवेत्, कीदृशीपु?- 'गंडवच्छासु'त्ति गण्डगडु, इह चोपचितपिशितपिण्डरूपतया गलत्पूतिरुधिरार्द्रतासम्भवाच्च तदुपमत्वाद्गण्डे कुचावुक्तौ वे वक्षसि यासां तात्सथाभूतास्तासु, वैराग्योत्पादनार्थं चेत्थमुक्तं, तथाऽनेकानि-अनेकसङ्ख्यानि चञ्चलतया चित्तानि-मनांसि यासां ता अनेकचित्तास्तासु, आह च
"अन्यस्याङ्के ललति विशदं चान्यमालिङ्गय शेते,
अन्यं वाचा चपयति हसत्यन्यमन्यं च रोति। अन्यं द्वेष्टि स्पृशति कशति प्राणुते वाऽन्यमिष्टं,
नार्यो नृत्यत्तडित इव धिक्र चञ्चलाश्चालिकाश्च ।।" तथा 'जाओ'त्ति याः 'पुरुष' मनुष्यं, कुलीनमपीति गम्यते, 'प्रलोभ्य' त्वमेव मे शरणं त्वमेव च प्रोतिकृदित्यादिकाभिर्वाग्भिविप्रतार्य क्रीडन्ति, 'जहा व'त्ति वाशब्दस्यैवकारार्थत्वाद् यथैव दासैः, एह्यागच्छ मा यासीरित्यादिवितथोक्तिप्रभृतिभिः क्रिडाभिर्विलसन्तीति सूत्रार्थः ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाहमू. ( २२७) नारीसु नो पगिज्झिज्जा इत्थीविप्पजहे अनगारे।
धम्मच पेसलंनच्चा तत्थ ठवेज्ज भिक्खु अप्पाणं। वृ. 'नारीषु' स्त्रीषु 'नो' नैव 'प्रगृध्येत्' प्रशब्द आदिकर्मणि ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः, 'इत्थी विप्पजहे'त्ति स्त्रियो विविधैः प्रकर्षेण च जहाति-त्यजतीति स्त्रीविप्रजहः, उणादयो बहुलमिति बहुलवचनाच्छ:, यद्वा-'इत्थि'त्ति स्त्रियो 'विप्पजहे'त्ति विप्रजह्यात्, पूर्वत्र च नारीग्रहणान्मनुष्यस्त्रिय एवोक्ता, इह च देवतिर्यक्सम्बन्धिन्योऽपि त्याज्यतयोच्यन्ते इति न पौनरुक्त्यमुपदेशत्वाद्वा, अनगार:' प्राग्वत्, किं पुन: कुर्यादित्याह'धर्ममेव' ब्रह्मचर्यादिरूपं, चस्यावधारणार्थत्वात्, 'पेशलम्' इह परत्र चैकान्तहितत्वेनातिमनोज्ञं ज्ञात्वा' अवबुध्य, 'तत्र' इति धर्मे 'स्थापयेत्' निवेशयेद् 'भिक्षुः' यति: आत्मानं विषयाभिलापनिषेधत इति सूत्रार्थः । अध्ययनार्थोपसंहारमाहमू. ( २२८) इइ एस धम्मे अक्खाए कविलेणं च विसुद्धपनेणं।
तरिहिति जे उ काहिति तेहिं आराहिया दुवे लोगु तिबेमि वृ.'इति' अनेन प्रकारेण 'एषः' अनन्तरमुक्तरूप: 'धर्मः' यतिधर्मः आङिति सकलतत्स्वरूपाभिव्याप्त्या ख्यातः-कथितः आख्यातः, केनेत्याह-'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वादमी मद्वचनतः प्रतिपद्यन्तामिति, 'च:' पूरणे, विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह-'तरिहिति'त्ति तरिष्यन्ति, भवार्णवमिति शेषः, 'ये' इत्यविशेषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org