SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४४ समितिः प्रधानेति तामाह भू. (२१९ ) उत्तराध्ययन-मूलसूत्रम् - १-८/२१८ सुद्धेसणा उ नच्चा नं तत्थ ठवेज्ज भिक्खू अप्पाणं । जाताए घासमेसिज्जा रसगिद्धे न सिया भिक्खाए । वृ . शुद्धा: - शुद्धिमत्यो दोषरहिता इत्यर्थः । ताश्च ता एषणाश्च- उद्गमैषणाद्याः शुद्धपणा:, एषणाः सप्त संस्पृष्टाद्या:, तद्यथा "संसद्वामसंसट्टा उद्धड तह अप्पलेवडा चेव । उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ 'त्ति एतासु च शुद्धैषणा: पञ्च, जिनकल्पिकापेक्षमेतत्, उक्तं हि तदधिकारे - पंचसु गहो दोसु अभिग्गहो' त्ति एताश्च 'ज्ञात्वा' अवबुध्य, किमित्याह- 'ज्ञानस्य फलं विरति 'रिति 'तत्रे' त्येषणासु 'स्थापयेत्' निवेशयेत्, भिक्षत इत्येवं धर्म्मा तत्साधुकरी चेति भिक्षुः सन् 'आत्मानं' स्वं, किमुक्तं भवति ? - अनेषणापरिहारेणैषणाशुद्धमेव गृह्णीयात्, तदपि किमर्थमित्याह- 'जायाए 'त्ति यात्रायै संयमनिर्वहणनिमित्तं ' धासं 'ति ग्रासमेषयेद्-गवेषयेत्, उक्तं हि "जह सगडक्खोवंगो कीरति भरवहणकारणा नवरं । तह गुण भरवहणत्थं आहारो बंभयारीणं ॥ " ति, एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह - रसेषु - स्निग्धमधुरादिषु गृद्धोगृद्धिमान् रसगृद्धो 'न स्यात्' न भवेत्, 'भिक्खाए' त्ति भिक्षादो भिक्षाको वा, अनेन रागपरिहरा उक्तः, द्वेषपरिहारोपलक्षणं चैतत्, ततश्च रागद्वेषरहितो भुञ्जीतेत्युक्तं भवति, यदुक्तम्" रागद्दोसविमुत्तो भुंजेज्जा निज्जरापेही "ति, सूत्रगर्भार्थः । अगृद्धश्च रसेषु यत्कुर्यात्तदाहमू. ( २२० ) पंताणि चैव सेविज्जा सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा जवणवा निसेवए मंथु ॥ वृ. 'प्रान्तानि' नीरसानि, अन्नपानानीति गम्यते, चशब्दादन्तानि च, एवोऽवधारणे, सच भिन्नक्रम: सेविज्जा इत्यस्यानन्तरं द्रष्टव्यः, ततश्च प्रान्तान्यन्ता च सेवेतैव न त्वसाराणीति परिष्ठापयेद्, गच्छनिर्गतापेक्षया वा प्रान्तानि चैव सेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात्, कानि पुनस्तानीत्याह- 'सीयपिंडं' ति शीतलः पिण्डः - आहारः, शीतश्वासौ पिण्डश्च शीतपिण्डस्तं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यात् अत आह- 'पुराणा: ' प्रभूतवर्षधृताः 'कुल्माषाः ' राजभाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीत्येतग्ग्रहणम् उपलक्षणं चैतत् पुराणमुद्गादीनां, 'अदु' इति अथवा 'बुक्कसं' मुद्गमाषादिनास्विकानिष्पन्नमन्नमतिनिपीडितरसं वा 'पुलाकम्' असारं वल्लाचनकादि, वा समुच्चये, 'जवणटु' त्ति यापनार्थं शरीरनिर्वाहणार्थ, वा समुच्चये, उत्तरत्र योक्ष्यते, 'सेवए' त्ति सेवेतोपभुञ्जीत, यापनार्थमित्यनेनैतत् सूचितं यदि शरीरयापना भवति तदैव निषेवेत, यदि त्वतिवातो द्रेकादिना तद्यापनैव न स्यात्ततो न निषेवेतापि, गच्छगतापेक्षमेतत्, तन्निर्गतश्चैतान्येव यापनार्थमपि निषेवेत, मन्धुं वा बदरादिचूर्णम्, अतिरूक्षता चास्य प्रान्तत्वं, सेवेतेति सम्बन्धः, पठ्यते च - 'जवणट्ठाए निसेवए मंधुं 'ति, तथैव नवरं मन्थुमित्यत्र चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, असारवस्तूपलक्षणं चोभयत्र मनथुग्रहणं, पुनः क्रियाऽभिधानं च न सकृदेवावाप्तान्यमूनि सेवेत किन्त्वनेकधाऽपीतिख्यापनार्थमिति सूत्रार्थः ।। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy